संस्कृत-शब्दकोशः

विशोषिन् विश्चतुलसी

विश्

विट् (पुंलिङ्ग)


अर्थ−
१. वैश्य/बनियाँ,
२. मानिस,
३. लोभ । (विश्) ।


विट् (स्त्रीलिङ्ग)


अर्थ−
१. केटी/छोरी/कन्या,
२. प्रजा,
३. फैलाउ,
४. गुहु/विष्टा । (विश्) ।


विश प्रवेशने


गणः- तुदादिः
कर्मकः-सकर्मकः
इट्-अनिट्
पदम्-परस्मैपदम्
कर्तरि लटि- विशति

अर्थ−
१. घुस्नु, प्रवेश गर्नु, भित्र जानु,
२. चारैतिर फैलनु ।
प्र-
१. प्रवेश गर्नु, छिर्नु ।
उप-
१. बस्नु, नजिक जानु ।
अविनि- (आत्मनेपदी)
१. सँगै बस्नु, अगाडि बस्नु,
२. आराम गर्नु, थाक्नु,
३. अभिमान गर्नु, अभिनिवेश गर्नु ।
निर्-
१. मूर्च्छित हुनु,
२. बाहिर जानु,
३. उपभोग गर्नु, भोग्नु ।
परि-
१. अगाडि राख्नु, उपहार दिनु ।
सम्-
१. आराम गर्नु ।
सन्नि-
१. नजिक जानु, नजिक रहनु ।
समा-
२. प्रचार गर्नु,
२. अटाउनु ।
नि- (आत्मनेपदी)-
१. निवेश गर्नु, वास गर्नु ।

कृदन्तरूपमाला

  • 1“विश प्रवेशने” 2 अयं धातुरात्मनेपदेऽपि दृश्यते इति प्रयोगात् ज्ञायते।
  • तथा हि-- ‘एतै- रुपायैर्यतते यस्तु विद्वांस्तस्यैष आत्मा विशते ब्रह्मधाम।।’ 3
  • प्रवेशनम्-अन्तर्गमनम्।
  • वेशकः-शिका, वेशकः-शिका, 4 विविक्षकः-क्षिका, वेविशकः-शिका;
  • 5 वेष्टा-ष्ट्री, वेशयिता-त्री, विविक्षिता-त्री, वेविशिता-त्री;
  • प्रविशन्-ती-न्ती, वेशयन्-न्ती, विविक्षन् 6 -न्ती;
  • -- 7 प्रवेक्ष्यन्-न्ती-ती, वेशयिष्यन्-न्ती-ती, विविक्षिष्यन्-न्ती-ती;
  • -- 8 9 निविशमानः-व्यतिविशमानः, वेशयमानः, विविक्षमाणः, वेविशमानः;
  • व्यतिवेक्ष्यमाणः, वेशयिष्यमाणः, विविक्षिष्यमाणः, वेविश्यमानः, 10 विट्-विड्- विशौ-विशः;
  • 11 विष्टम्-ष्टः-ष्टवान्, वेशितम्-तः, विविक्षितः, वेविशितः-तवान्;
  • इत्यादिकानि रूपाणि सर्वाण्यपि दैवादिकखिद्यतिवत् 12 ज्ञेयानि।
  • विशः- 13 देवविशा, विविशिवान् 14 -विविश्वान्, 15 विशयी-विषयी, 16 वेशः, 17 प्रायोपवेशिका, 18 19 ग्राममभिनिविशमानः, कल्याणेऽभिनिवेशः, पापेऽभिनिवेशः, गेहानुप्रवेशमास्ते, चारुशिलोपवेशम्, 20 21 गेहं गेहमनुप्रवेशमास्ते गेहमनुप्रवेशमनुप्रवेशमास्ते, 22 वेशन्तः, 23 वेश्म, 24 विटपः-विष्टपम्-त्रिविष्टपम्, विशिपम्, विशालम्, 25 विश्वम्।

प्रासङ्गिक्यः

  • (१६१०)
  • (६-तुदादिः-१४२४। सक। अनि। पर।)
  • (मुण्डकोपनिषत् ३-२-४)
  • २। सन्नन्तात् ण्वुलि ‘हलन्ताच्च’ (१-१-१०) इति सनः कित्त्वे ‘व्रश्च--’ (८-२-३६) इत्यादिन षत्वे ककारे च रूपमेवम्। एवं सन्नन्ते सर्वत्र बोध्यम्।
  • ३। तृचि, ‘व्रश्च--’ (८-२-३६) इत्यादिना शकारस्य षकारे, ‘ष्टुना ष्टुः’ (८-४-४१) इति टकारे च रूपमेवम्। एवं तव्यदादिष्वपि ज्ञेयम्।
  • B। ‘फणावतस्त्रासयितुं रसायास्तलं विवक्षन्निव पन्नगारिः।।’ शि। व। ३-२३।
  • C। ‘स प्रोषिवानेत्य पुरं प्रवेक्ष्यन् शुश्राव घोषं न जनौघजन्यम्।’ भ। का। ३-२७।
  • [पृष्ठम्१२४०+ २८]
  • १। ‘नेर्विशः’ (१-३-१७) इति तङ्। ‘अङ्के निविशतीं भयात्’ इत्यादिषु तङभाव उपसर्गप्रतिरूपकेण ‘नि’ इत्यनेन साकं विशतेः समासेनेति बोध्यम्।
  • २। क्विपि, षकारे, षकारस्य ष्टुत्वेन टकारे च रूपमेवम्।
  • ३। ‘क्तिच्क्तौ च संज्ञायाम्’ (३-३-१७४) इति संज्ञायां क्तप्रत्ययः।
  • (३४९)
  • ४। क्विबन्तात् अजादिपाठाद्धलन्तादपि टापि च रूपमेवम्।
  • ५। ‘विभाषा गमहनविदविशाम्’ (७-२-६८) इति क्वसौ इड्विकल्पनात् रूपद्वयं बोद्ध्यम्।
  • ६। णिनिप्रत्यये रूपमेवम्। वृद्ध्यभावो निपातनात्। विषयी इत्यत्र षत्वमपि केचित् आहुः।
  • ७। ‘पदरुजविश--’ (३-३-१६) इति कर्तरि घञ्। विशतीति वेशः। वेश्याजनोप- भोगार्थे तु ‘हलश्च’ (३-३-१२१) इति अधिकरणे घञ्।
  • ८। ‘पर्यायार्हर्णोत्पत्तिषु ण्वुच्’ (३-३-१११) इति वुच्प्रत्यये रूपम्। क्तिन्नादीनामप- वादः। प्रायोपवेशिका = मरणपर्यन्तम् अनशनम्।
  • आ। ‘अहं पर्यायसंप्राप्तां कुर्वे प्रायोपवेशिकाम्।।’ भ। का। ७-७६।
  • ९। ‘अभिनिविशश्च’ (१-४-४७) इति अभिनिपूर्वस्य विशतेः कर्मसंज्ञा भवति। ‘परिक्रयणे संप्रदानमन्यतरस्याम्’ (१-४-४४) इत्यतो मण्डूकप्लुत्याऽन्यतरस्यामित्य- नुवृत्तेः, तस्य च व्यवस्थितविभाषात्वात् कल्याणेऽभिनिवेशः, पापेऽभिनिवेशः, ‘या या संज्ञा यस्मिन् यस्मिन् संज्ञिन्यभिनिविशते’, इत्यादिषु कर्मत्वाभावः।
  • B। ‘कुतूहलाच्चारुशिलोपवेशं काकुत्स्थ ईषत्स्मयमान आस्त।।’ भ। का। २। ११।
  • १०। ‘विशिपतिपदि--’ (३-४-५६) इति द्वितीयान्त उपपदे णमुल्प्रत्ययो भवति व्याप्यमाने आसेव्यमाने चार्थे गम्यमाने। तृतीयाप्रभृतित्वात् (२-२-२१) समासवि- कल्पः। असमासे तु व्याप्यमानतायां द्रव्यवचनस्य द्विर्वचनम्। आसेव्यमानतायां तु क्रियावचनस्य ‘उपपदमतिङ्’ इति समासः। समासेन व्याप्त्यासेवयोरुक्तत्वात् ‘नित्यवीप्सयोः’ (८-१-४) इति द्विर्वचन न भवति।
  • [पृष्ठम्१२४१+ २९]
  • १। ‘जॄविशिभ्यां झच्’ (द। उ। ६-१७) इति झच्प्रत्यये, ‘झोऽन्तः’ (७-१-३) इत्यन्तादेशे च रूपमेवम्। वेशन्तः पल्वलः।
  • २। ‘विटपविष्टपविशिपोलवाः’ (द। उ। ७-१२) इति कपन्प्रत्यये निरूढः। शकारस्य टकारो निपातनात्। तेन विशन्त्यस्मिन् पक्षिण इति विटपम् = शाखावयवः। अस्यैव धातोः षकारेऽन्तादेशे तुडागमश्च निपात्यते। विशन्त्यस्मिन् पुण्यकृत इति विष्टपम् = पुण्यकृतां स्थानम्। त्रिविष्टपम् = स्वर्गः। अस्यैव धातोः प्रत्ययादेरित्वं निपात्यते। तेन विशिपम् = वेश्म, आसनं च इत्यर्थः। पद्मं चेत्येके।
  • ४। औणादिके (द। उ। ८।-१२५) क्वन्प्रत्यये रूपम्। विशति तस्मिन् सर्वम् इति विश्वम्।



Correction: