संस्कृत-शब्दकोशः

विष्कुम्भ विष्टप

विष्क्

विष्क दर्शने


गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- विष्कयति–ते

अर्थ−
१. हेर्नु, प्रत्यक्ष गर्नु ।

कृदन्तरूपमाला

  • 1“विष्क दर्शने” 2 अदन्तः।
  • क्षीरस्वामी धातुममुं न पठति।
  • विष्ककः-ष्किका, विविष्कयिषकः-षिका, विष्कयिता-त्री, विविष्कयिषिता-त्री;
  • इत्यादिकानि रूपाणि सर्वाण्यपि चौरादिकचित्रयतिवत् 3 ज्ञेयानि।

प्रासङ्गिक्यः

  • (१६१४)
  • (१०-चुरादिः-१९४०। सक। सेट्। उभ।)
  • (५२५)


विष्क हिंसायाम्


गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-आत्मनेपदम्
कर्तरि लटि- विष्कयते

अर्थ−
१. दुःख दिनु,सताउनु ।

कृदन्तरूपमाला

  • 1“विष्क हिंसायाम्” 2 आकुस्मीयः।
  • क्षीरतरङ्गिण्यां धातुरयं न दृश्यते।
  • अपि तु तत्र ‘किष्क’ इति पठित्वा ‘हिष्क’ इति दुर्गः’ इति उक्तम्।
  • ‘किष्क’ इति पठित्वा, हिष्क इत्येके’ इति च धातुकाव्यव्याख्या 3
  • ‘धातुप्रदीपादौ-- ‘हिष्क’ इति पठ्यते’ इति मा।
  • धा।
  • वृत्तिः।
  • विष्ककः-ष्किका, विविष्कयिषकः-षिका, विष्कयिता-त्री, विविष्कयिषिता-त्री;
  • इत्यादिकानि रूपाणि सर्वाणि चौरादिकचित्रयतिवत् 4 बोध्यानि।
  • धातोरस्य आत्मनेपदित्वात् विष्कयमाणः, विविष्कयिषमाणः इति विशेषः।
  • ‘किष्क’ इति पक्षे किष्किन्धा, किष्कुः, इति औणादिके।
  • ‘किष्कुर्द्वयोर्वितस्तौ च--’ इति मेदिनी।

प्रासङ्गिक्यः

  • (१६१३)
  • (१०-चुरादिः-१६८६। सक। सेट्। आत्म।)
  • (३-३४)
  • (५२५)



Correction: