संस्कृत-शब्दकोशः

शली शल्क

शल्

शल गतौ


गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- शलति

अर्थ−
१. जानु, छिटो जानु ।

कृदन्तरूपमाला

  • 1“शल गतौ” 2 ज्वलादिः।
  • ‘गतौ शलति संवृत्यां चलने शलते शलेः।’ 3 इति देवः।
  • तरङ्गिण्यां ‘शल गतौ’ इति पठित्वा इतः पूर्वं भ्वादौ ‘शल आशुगमने’ इति दृश्यते।
  • ‘शल आशुगमने इति ज्वलादौ क्षीरस्वामी’ इति पुरुषकारः।
  • क्षीरतरङ्गिण्यां ज्वलादौ न दृश्यते।
  • ‘-- श्लाघायाम्’ इति कौशिकः’ इति हेमचन्द्रः।
  • सर्वाण्यपि रूपाणि भौवादिककलतिवत् 4 ऊह्यानि।

प्रासङ्गिक्यः

  • (१६९२)
  • (१-भ्वादिः-८४३। सक। सेट्। पर।)
  • (श्लो। १५४)
  • (१७४)


शल चलनसंवरणयोः


गणः- भ्वादिः
कर्मकः-सकर्मकः, चलनेऽकर्मकः
इट्-सेट्
पदम्-आत्मनेपदम्
कर्तरि लटि- शलते

अर्थ−
१. जानु, गड्नु, छेड्नु,
२. ढाक्नु, छोप्नु ।

कृदन्तरूपमाला

  • 1“शल चलनसंवरणयोः” 2 ‘गतौ शलति संवृत्यां चलने शलते शलेः।’ 3 इति देवः।
  • शालकः-लिका, शालकः-लिका, शिशलिषकः-षिका, शाशलकः-लिका;
  • शलिता-त्री, शालयिता-त्री, शिशलिषिता-त्री, शाशलिता-त्री;
  • इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिककलतिवत् 4 ज्ञेयानि।
  • शलः, शाला = गृहपर्यायः, 5 शलभः, 6 शल्यम्, शालिः-धान्यम्, णिनिप्रत्यये-शाली।
  • इमानि रूपाण्यधिकान्यत्रेति विशेषः।
  • 7

प्रासङ्गिक्यः

  • (१६९१)
  • (१-भ्वादिः-४९०। सक। सेट्। आत्म।)
  • (श्लो। १५४)
  • (१७४)
  • २। औणादिके (द। उ। ७-१८) अभच्प्रत्यये रूपमेवम्। शलभः = पतङ्गः।
  • ३। औणादिके (द। उ। १०-१७) यक्प्रत्यये शल्यमिति रूपम्। शरीरान्तर्गतं शस्त्रमित्यर्थः।
  • [पृष्ठम्१२९०+ २४]


शल श्लाघायाम्


गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- शालयति-ते

अर्थ−
१. स्तुति गर्नु, प्रशंसा गर्नु, प्रार्थना गर्नु ।

कृदन्तरूपमाला



Correction: