संस्कृत-शब्दकोशः

शुचिस्मित शुच्य

शुच्

ईशुचिर् पूतीभावे


गणः- दिवादिः
कर्मकः-अकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- शुच्यति–ते

अर्थ−
१. स्नान गर्नु, शुद्ध हुनु,
२. भिज्नु, चीसो हुनु,
३. दुर्गन्ध आउनु,
४. मिच्नु, मथ्नु,
५. घाउ लगाउनु, घाइते बनाउनु, घायल पार्नु ।

कृदन्तरूपमाला

  • 1“ई शुचिर् पूतीभावे” 2 पूतीभावः = क्लेदः।
  • 3 शुचित्वा-शोचित्वा, 4 शुक्तम्, 5 शुक्तिः-शुक्तिका, इतीमानि रूपाण्यस्माद् भवन्ति।
  • 6 इतराणि सर्वाण्यपि रूपाणि दैवादिकदीप्यतिवत् 7 ज्ञेयानि।

प्रासङ्गिक्यः

  • (१७२५)
  • (४-दिवादिः-११६५। अक। सेट् उभ)
  • १२। ‘न क्त्वा सेट्’ (१-२-१८) इति प्राप्तं कित्त्वनिषेधं बाधित्वा, ‘रलो व्युपधात्--’ (१-२-२६) इति कित्त्वविकल्पः। एवं सन्नन्तेऽपि शुशोचिषकः-शुशुचिषकः- षिका इत्यादीनि रूपाणि ज्ञेयानि।
  • १३। ईदित्त्वात् निष्ठायामिण्निषेधः। शुक्तम् = स्फोटः।
  • १४। क्तिन्नन्तोऽयम्। मुक्तास्फोटः शुक्तिः। शुक्तिरेव शुक्तिका।
  • [पृष्ठम्१३०६+ २६]
  • (८४६)


शुच शोके


गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- शोचति

अर्थ−
१. दुःख मान्नु, शोक गर्नु ।

कृदन्तरूपमाला

  • 1“शुच शोके” 2 ‘शुच्यते शुच्यतीतेवं पूतीभावे शुचेः श्यनि।
  • शोके शोचति--।।’ 3 इति देवः।
  • 4 5 शुचिः, 6 शोकः-हृच्छोकः, 7 शोच्यम्, 8 शोचनः, 9 शुक्, 10 शुक्रः, 11 शोशु- च्यमानः, 12 शोचिः, 13 शुचित्वा-शोचित्वा, शुशुचिषकः-शुशोचिषकः, 14 शुचितः- शोचितः, 15 शूद्रः-शूद्रा, महाशूद्री।
  • इतराणि सर्वाण्यपि रूपाणि भौवादिक- कोचतिवत् 16 ऊह्यानि।

प्रासङ्गिक्यः

  • (१७२३)
  • (१-भ्वादिः-१८३। अक। सेट्। पर।)
  • (श्लो। ५३)
  • [पृष्ठम्१३०५+ ३३]
  • १। ‘इगुपधात् कित्’ (द। उ। १-४८) इति इन्प्रत्ययः। तस्य कित्त्वात् न गुणः। अहरहः क्लिश्यमाजनं दृष्ट्वा शोचतीति शुचिः = विद्वान्। शुचिः दक्षश्च।
  • २। घञि रूपमेवम्। ‘तुन्दशोकयोः--’ (३-२-५) इति निपातनात् कुत्वम्। अन्यथा वार्त्तिकमते ‘निष्ठायामनिटः--’ (सि। कौ। वा। ७-३-५२) इति संको- चितत्वात् धातोरस्य निष्ठायां सेट्त्वात् कुत्वाप्रसक्तेः। प्रक्रियासर्वस्वे तु न्यङ्क्वादित्वं (७-३-५३) आश्रित्यात्र कुत्वं समर्थितम्। हृच्छोकः इत्यत्र ‘वा शोकष्यञ्रोगेषु’ (६-३-५१) इति हृदयशब्दस्य हृदादेशः।
  • ३। ण्यति, ‘चजोः कु घिण्ण्यतोः’ (७-३-५२) इति सूत्रकारमते यद्यपि प्राप्तं कुत्वम्; तथापि ‘निष्ठायामनिटः--’ (वा। ७-३-५६) इति नियमान्निवर्तते।
  • ४। ‘जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुच--’ (३-२-१५०) इत्यादिना तच्छीलादौ युच्।
  • ५। भावे स्त्रियां सम्पदादित्वात् (वा। ३-३-१०८) क्विप्। क्तिनोऽपवादः।
  • ६। ‘ऋज्रेन्द्र--’ (द। उ। ८-४६) इत्यत्र निपातनात् रक्प्रत्ययान्तः साधुः। शुक्रः = भार्गवः।
  • ७। यङतात् शानचि रूपमेवम्।
  • ८। शोचति इति शोचिः = दीप्तिः, शोको वा। सकारान्तः शब्दः। ‘अर्चिशुचि--’ (द। उ। ९-३०) इति इसिप्रत्ययः।
  • ९। ‘रलो व्युपधात्--’ (१-२-२६) इति सेटोः क्त्वासन्प्रत्यययोः कित्त्वविकल्पः; तेन रूपद्वयम्।
  • १०। ‘उदुपधात् भावादिकर्मणोः--’ (१-२-२१) इति सेटो निष्ठायाः कित्त्वविकल्पः। तेन रूपद्वयम्।
  • ११। ‘शुचेर्दक् रश्च’ इति उणादिसूत्रेण रक्प्रत्ययो दकारादेशः, उपधादीर्घश्च इति माधवः। दशपाद्युणादौ तु ‘शदेरू च’ (द। उ। ८-३४) इति शदेर्धातोरिदं पदं निष्पाद्यते। माधवपक्ष एव प्राचीनः।
  • (२००)



Correction: