शुम्भमर्दिनी
शुराट
शुम्भ्
शुम्भ भाषणे हिंसायां
गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- शुम्भति
अर्थ−
१. भाषण गर्नु, बोल्नु,
२. मार्नु, सताउनु ।
कृदन्तरूपमाला
- 1“शुन्भ भाषणे” 2 ‘-- दीप्तौ हिंसने च’ इति वोपदेवः।
- ‘--भासने’ इति दुर्गः।
- ‘-- भाषणे हिंसायां च’ इति क्षीरस्वामी।
- एवं देवमैत्रैयादयोऽपि।
- ‘शोभते शपि दीप्त्यर्थे शुम्भेरन्यत् तङः समम्।’ 3 इति देवः।
- “स्वामी तु निरनुषङ्गं न पपाठ।
- इंदमेव आत्रेयस्यापि मतम्;
- तुदादौ ‘शोभत इति शपि’ इति वचनात्।
- दुर्गस्तु भासने इत्यस्यार्थमाह।
- एवं धनपालशाकटायनौ।
- गुप्तस्तु ‘सावष्टम्भनिषुम्भ4 संभ्रमनमद्- भूकोलंम्’ मालतीमाधवम् 5 इत्यादिदर्श्नान्मूर्धन्यादित्वमाह” इति माधवः।
- शुम्भकः-म्भिका, शुम्भकः-म्भिका, शुशुम्भिषकः-षिका, शोशुभकः- भिका;
- इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिककुञ्चतिवत् 6 ज्ञेयानि।
- इगुपधलक्षणकप्रत्यये कित्त्वादुपधानकारलोपे शुभः, ‘स्फायितञ्चि--’ 7 इत्यादिना रक्प्रत्यये नकारलोपे च शुभ्रम् इति च विशेषः।
प्रासङ्गिक्यः
शुम्भ शोभार्थे
गणः- तुदादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- शुम्भति
अर्थ−
१. चम्कनु, प्रकाशित हुनु, देदीप्यमान हुनु,
२. सुन्दर हुनु, राम्रो हुनु,
३. भन्नु,
४. प्रेम गर्नु, मिलाउनु,
५. छोड्नु, मुक्त गर्नु ।
कृदन्तरूपमाला
- 1“शुन्भ शोभार्थे” 2 तृम्फादिः।
- ‘-- हिंसायां च द्रुमे’ इति धा।
- का।
- व्याख्या 3।
- ‘--दीप्तौ हिंसने च’ इति वोपदेवः।
- ‘हिंसाभाषणयोः शोभेत् शोभार्थे शुभतीति शे।।’ 4 इति देवः।
- सर्वाण्यपि रूपाणि भौवादिककुञ्चतिवत् 5 ऊह्यानि।
प्रासङ्गिक्यः