श्रण
श्रथ
श्रण्
श्रण दाने गतौ च
गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- श्रणति
अर्थ−
१. दिनु, दान गर्नु ।
वि-
१. दिनु ।
कृदन्तरूपमाला
- 1“श्रण दाने च” 2 3 श्रणधातोश्चौरादिकस्य हेतुमण्णिचोऽभावात्, स्वार्थे तु णौ ‘नान्ये मितोऽहेतौ’ 4 इति मित्त्वनिषेधात् न तस्यानुवादोऽयं धातुरिति माधवोऽभिप्रैति। घटादिः।
- चकारात् पूर्वधात्वर्थे गतौ च इति ऊह्यम्।
- ‘मितः श्रणति दानार्थे…’ 5 इति देवः।
- श्राणकः-णिका, 6 श्रणकः-7-णिका, शिश्रणिषकः-षिका, शंश्रणकः-णिका;
- श्रणिता-त्री, श्रणयिता-श्राणयिता-त्री, शिश्रणिषिता-त्री, शंश्रणिता-त्री;
- इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिककणतिवत् 8 ज्ञेयानि।
- शतरि 9थितोऽस्तु सद्यः।।’ धा।
- का।
- २-९। श्रणन् इति।
प्रासङ्गिक्यः
श्रण दाने
गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- श्राणयति–ते
अर्थ−
१. दिनु, दान गर्नु ।
वि-
१. दिनु ।
कृदन्तरूपमाला
- 1“श्रण दाने” 2 ‘मितः श्रणति दानार्थे श्राणयत्यत्र णौ पदम्।।’ 3 इति देवः।
- प्रायेणायं विपूर्वः।
- ‘--गतौ इत्येके’ इति मैत्रेयरक्षितः।
- ‘मित्फलं तु पुनः श्रणयतीति हेतुमण्णिचि ह्रस्वः।’ इति पुरुषकारः 4।
- अत्राह क्षीरस्वामी-- ‘युचि प्राप्ते ‘चिन्तिपूजि--’ 5 इति चकारात् अङ् इष्यते 6 कुत्सावत्, श्राणा’ इति।
- श्राणकः-णिका, शिश्राणयिषकः-षिका, श्राणयिता-त्री, शिश्राणयिषिता-त्री;
- इत्यादिकानि रूपाणि सर्वाण्यपि चौरादिककाणयतिवत् 7 ऊह्यानि।
- ल्यपि- 8 विश्राण्य, 9 विश्राणितम्, विश्राणनम् 10 -युच्।
- 11
प्रासङ्गिक्यः