मेघविस्फूर्जिता परि०- रसर्त्वश्वैर्यूंमौन्सौ ररगुरुयुतौ मेघविस्फूर्जिता स्यात् ।
गण०- य, म, न, स, र, र, ग (6.
6.
7) ।
उदा०-
“कदम्बामोदाढ्या विपिनपवनः केकिनः कान्तकेका विनिद्राः कन्दल्यो दिशि दिशि मुदा दर्दुरा दृप्तनादाः।
निशा नृत्यद्विद्युद्विलसितलसन्मेघविस्फूर्जिता चेत् प्रियः स्वाधीनोऽसौ दनुजदलनो राज्यमस्मात् किमन्यत् ॥”