वशंवद
वशा
वंशस्थविल
वंशस्थविल (वंशस्थ या वंशस्तनित), परि०- वदन्ति वंशस्थविलं जतौ जरौ ।
गण०- ज, त, ज, र (5.7) ।
उदा०-
“तथा समक्षं दहता मनोभवम् पिनाकिना भग्नमनोरथा सती।
निनिन्द रूपं हृदयेन पार्वती प्रियेषु सौभाग्यफला हि चारुता ॥”
कु० ५।१। दे० रघु० ३ भी ।