वैश्वदेवी परि०- बाणाश्वैश्छिन्ना वैश्वदेवी ममौ यौ ।गण०- म, म, य, य (5.7) ।उदा०- “अर्चामन्येषां त्वं विहायामराणामद्वैतेनैक विष्णुमभ्यर्च्य भक्त्या। तत्राशेषात्मन्यर्चिते भाविनी ते भ्रात: संपन्नाराधना वैश्वदेवी ॥