संस्कृत-शब्दकोशः

बुधिल बुध्न

बुध्

बुध अवगमने


गणः- दिवादिः
कर्मकः-सकर्मकः
इट्-अनिट्
पदम्-आत्मनेपदम्
कर्तरि लटि- बुध्यते

अर्थ−
१. जान्नु, बुझ्नु ।
प्रति-
१. केही जान्नु,
२. जाग्नु,
३. बाटो ढुक्नु ।
प्रतिवि-
१. जाग्नु, जागृत हुनु ।
सम्-
१. राम्रोसँग जान्नु ।
अव-
१. जान्नु ।

कृदन्तरूपमाला

  • 1“बुध अवगमने” 2 3 ‘तत्त्वं बुध्यते’ इति धर्मकीर्त्ति प्रयोगात्, ‘क्रमादमुं नारद इत्यबोधि सः।।’ 4 इति माघप्रयोगाच्च सकर्मकत्वमप्यस्यास्तीति ज्ञायते।
  • परं तु ‘अत्र बुधादीनां चतुर्णाम्, ‘अणावकर्मकात्--’ 5 इत्येव सिद्धे, वचनमिदम् अचित्तवत्कर्तृकार्थम्।’ इति प्रतिपादयतो वृत्तिकारादेरेतदनभिमत- मिति ज्ञायते।
  • मा।
  • धा।
  • वृत्तौ तु ‘अयमर्थभेदेन सकर्मकोऽकर्मकश्च।’ इति समाहितम्। ‘बुध्यते बोधतीत्येवं बुधेरवगमे द्वयम्।’ 6 इति देवः।
  • 7 बोधकः-धिका, बोधकः-धिका, 8 बुभुत्सकः-त्सिका, बोबुधकः-धिका;
  • इत्यादीनि सर्वाण्यपि रूपाणि दैवादिकक्षुध्यतिवत् 9 ज्ञेयानि।
  • 10 बुद्धः, 11 बुधानः, 12 बुबुधानः।

प्रासङ्गिक्यः

  • ↑ (११२२)
  • ↑ (४-दिवादिः-११७२। अक। अनि। आत्म।)
  • ↑ [अ]
  • ↑ (शि। व। १। ३)
  • ↑ (१-३-८८)
  • ↑ (श्लो। ११९)
  • ↑ [पृष्ठम्०९२८+ २९]
  • ↑ १। सन्नन्ताण्ण्वुलि, ‘हलन्ताच्च’ (१-२-१०) इति सनः कित्त्वे, भष्भावे चर्त्वे च रूपम्।
  • ↑ (३१५)
  • ↑ २। ‘क्तिच्क्तौ च संज्ञायाम्’ (३-३-१७४) इति संज्ञायाम् क्तप्रत्ययः। बुध्यतीति बुद्धः = सिद्धार्थः।
  • ↑ ३। ‘युधिबुधिदृशेः किच्च’ (द। उ। ५-३३) इत्यानच्प्रत्ययः, किच्च। कित्त्वान्न गुणः। बुधानः = आचार्यः।
  • ↑ ४। ‘मुचिबुधिभ्यां सन्वच्च’ इति मा। धा। वृत्त्युपात्तेन औणादिकसूत्रेण आनच्प्रत्यये, तस्य सन्वद्भावात् द्वित्वे, कित्त्वे च रूपम्। बुबुधानः = बोद्धुमिच्छुः।


बुध अवगमने


गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- बोधति

अर्थ−
१. जान्नु, बुझ्नु ।
प्रति-
१. केही जान्नु,
२. जाग्नु,
३. बाटो ढुक्नु ।
प्रतिवि-
१. जाग्नु, जागृत हुनु ।
सम्-
१. राम्रोसँग जान्नु ।
अव-
१. जान्नु ।

कृदन्तरूपमाला

  • 1“बुध अवगमने” 2 ज्वलादिः।
  • ‘बुध्यते बोधतीत्येवं बुधेरवगमे द्वयम्।
  • बुधिरो बोधनार्थस्य बोधते बोधतीत्यपि।।’ 3 इति देवः।
  • अवगमनम् = उद्बोधः, ज्ञानं च।
  • आद्ये-अकर्मकः, द्वितीये-सकर्मकः।
  • बोधकः-धिका, बोधकः-धिका, बुबोधिषकः-बुबुधिषकः-षिका, बोबुधकः- धिका इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककोलतिवत् 4 ज्ञेयानि।
  • 5 6 बोधयन् शिष्यं धर्मम्।
  • 7 प्रबोधी-प्रतिबोधी।
  • राज्ञां 8 बोधितः-बुधितो वा।
  • 9 विबुघः 10 -बोधः, 11 अविबोधयन्।

प्रासङ्गिक्यः

  • ↑ (११२१)
  • ↑ (१-भ्वादिः-८५८। सक। सेट्। पर।)
  • ↑ (श्लो। ११९)
  • ↑ (२३१)
  • ↑ [पृष्ठम्०९२७+ २९]
  • ↑ १। ‘बुधयुधनशजनेङ्प्रुद्रुस्रुभ्यो णेः’ (१-३-८६) इति ण्यन्तादस्मात् परस्मैपदमेव। यदाऽयं चित्तवत्कर्तृकः, तदाऽपि, ‘अणावकर्मकात् चित्तवत्कर्तृकात्’ (१-३-८८) इति ण्यन्तात् परस्मैपदमेवेति ज्ञेयम्। अत्र, ‘गतिबुद्धिप्रत्यवसानार्थ--’ (१-४-५२) इत्यनेन बुघ्द्यर्थत्वात् अण्यन्तावस्थायां कर्तुः, ण्यन्तावस्थायां कर्मसंज्ञेत्यपि ज्ञेयम्।
  • ↑ २। ‘भविष्यति गम्यादयः’ (३-३-३) इति सूत्रे, प्र--प्रतिपूर्वकस्यास्य णिनिप्रत्ययान्त- त्वेन गणपाठात् भविष्यत्यर्थे णिनिः।
  • ↑ ३। ‘मतिबुद्धिपूजार्थेभ्यश्च’ (३-२-१८८) इति वर्तमाने आदिकर्मणि च क्तप्रत्ययः। ‘उदुपधाद् भावादिकर्मणोः--’ (१-२-२१) इति कित्त्वविकल्पः। ‘क्तस्य च वर्तमाने’ (२-३-६७) इति षष्ठी। अत्र क्षीरतरङ्गिण्यां बोद्धा, बुद्धः इति इड्रहितप्रयोगौ प्रदर्शितौ। अनिट्कारिकासु (७-२-१०) बुध्यति इति श्यना निर्देशात् दैवादिकस्यैवानिट्त्वमिति, अस्य भौवादिकत्वेन सेड्रूपाण्येव भवन्तीति च युक्तमुत्पश्यामः।
  • ↑ ४। ‘ज्वलितिकसन्तेभ्यो णः।’ (३-१-१४०) इति कर्तरि णप्रत्ययविकल्पः। तस्य वैकल्पिकत्वात्, कर्तरि पक्षे इगुपधलक्षणकप्रत्यये बुधः, बिबुधः इत्यादीनां सिद्धिः। ‘अभिधानलक्षणाः कृत्तद्धितसमासान्ताः, (भाष्यम्-३-३-१) इति वचनात् सामान्येन विहितानामपि कृतां क्वचित् संज्ञायामपि सम्भव इति, अत्र कप्रत्ययः संज्ञायामपि। तेन बुधः इति ग्रहविशेषस्य, जातिविशेषस्य च संज्ञा।
  • ↑ आ। ‘… तमहमितो विलोक्य विबुधैः कृतोत्तमायोधनम्।’ भ। का। १०। ३७।
  • ↑ B। ‘ततः प्राकारमारोहत् क्षपाटानविबोधयन्।’ भ। का। ८। ५६।


बुधिर् बोधने


गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- बोधति–ते

अर्थ−
१. जान्नु, बुझ्नु ।
प्रति-
१. केही जान्नु,
२. जाग्नु,
३. बाटो ढुक्नु ।
प्रतिवि-
१. जाग्नु, जागृत हुनु ।
सम्-
१. राम्रोसँग जान्नु ।
अव-
१. जान्नु ।

कृदन्तरूपमाला

  • 1“बुधिर् बोधने” 2 ‘बुधिरो बोधनार्थस्य बोधते बोधतीत्यपि।।’ 3 इति देवः।
  • चान्द्राः, क्षीरस्वामी च ‘बुध--’ इत्यनिरितं पठन्ति।
  • बोधकः-धिका, बोधकः-धिका, बुबोधिषकः-बुबुधिषकः-षिका, बोबुधकः-धिका;
  • इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककोलतिवत् 4 ज्ञेयानि।
  • 5 बोधयमानः, 6 विबोध्यः, 7 तत्त्वबोधः- 8 तत्त्वबोधिनी।

प्रासङ्गिक्यः

  • ↑ (११२३)
  • ↑ (१-भ्वादिः-८७५। सक। सेट्। उभ।)
  • ↑ (श्लो। ११९)
  • ↑ (२३१)
  • ↑ ५। ‘बुधयुध--’ (१-३-८६) इत्यत्र, अकर्मकैः युध-नश-जनैः साहचर्यात् तादृशस्या- कर्मकस्यैव ग्रहणमिति, सकर्मकोऽयं न तत्र विवक्षितः। तेनास्मात् ‘णिचश्च’ (१-३-७४) इत्यस्य प्रवृत्त्या यथासम्भवं ण्यन्तात् शता शानच्च भवतीति विशेषः।
  • ↑ आ। ‘या नेदितोर्वीपरिशर्धिवीचीविमृद्धवृक्षादिविबोध्यशैत्या।।’ धा। का। २। २६।
  • ↑ ६। ‘कर्मण्यण्’ (३-२-१) इत्यणि रूपमेवम्।
  • ↑ ७। ताच्छील्ये णिनिप्रत्यये रूपमेवम्। स्त्रियां ङीप्।



Correction: