संस्कृत-शब्दकोशः

बृहू बेडा

बृह्

बृह वृद्धौ


गणः- भ्वादिः
कर्मकः-अकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- बर्हति

अर्थ−
१. बढ्नु, वृद्धि हुनु ।

कृदन्तरूपमाला

  • 1“बृह वृद्धौ” 2 ‘… बृंहति बर्हति।
  • वृद्धौ, भाषार्थविषये बृंहयेद् बर्हयेदिति।।’ 3 इति देवः।
  • बर्हकः-र्हिका, बर्हकः-र्हिका, बिबर्हिषकः-षिका, बरीबृहकः-हिका;
  • इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकदर्हतिवत् 4 ज्ञेयानि।
  • 5 परिबृढः 6, परिबृहितः, 7 बृहत्।

प्रासङ्गिक्यः

  • ↑ (११२८)
  • ↑ (१-भ्वादिः-७३५। अक। सेट्। पर।)
  • ↑ (श्लो। १९८)
  • ↑ (८६६)
  • ↑ १। परिपूर्बादस्मान्निष्ठायाम्, इडभावः, तकारस्य ढत्वम्, हकारस्य लोपः इति, ‘प्रभौ परिबृढः’ (७-२-२१) इत्यनेन प्रभावभिधेये निपातितः। अन्यत्र परिबृहितः। अत्र बृंहतेरेव सानुषङ्गस्येदं निपातनमिति वार्तिककारपक्ष इति पदमञ्जर्य- नुसारेण मा। धा। वृत्तावुक्तम्। भाष्ये दर्हतिदृंहति विषय एव प्रकृत्यन्तरसद्भावे प्रमाणं प्रदर्शितमिति बोध्यम्। किञ्च, अत्र सर्वत्र भाष्यकोशेषु ‘प्रभौ परिवृढः’ (७-२-२१) इत्युपादाय परिवृढः इत्येव रूपसम्पादनं कृतमिति ज्ञायते। अतश्च दन्तोष्ठ्यादिः वर्हतिर्लिखिषमाणैव भाष्योपात्तेत्यपि ज्ञायते। अत्र तत्त्वं विद्वांसो विभावयन्तु।
  • ↑ B। ‘तान् दृष्ट्वाऽतिदृढान् धृष्टान् प्राप्तान् परिबृढाज्ञया।’ भ। का। ९। १८।
  • ↑ २। ‘वर्तमाने पृषद्बृहत्--’ (द। उ। ६। ५) इति कतिप्रत्ययः, तस्य शतृवद्भावश्च।


बृहिर् वृद्धौ शब्दे च


गणः- भ्वादिः
कर्मकः-अकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- बर्हति

अर्थ−
१. बढ्नु, वृद्धि हुनु,,
२. हात्ती कराउनु, हात्तीको जस्तो शब्द निस्कनु ।

कृदन्तरूपमाला


बृहू उद्यमने


गणः- तुदादिः
कर्मकः-सकर्मकः
इट्-वेट्
पदम्-परस्मैपदम्
कर्तरि लटि- बृहति

अर्थ−
१. उठाउनु,
२. उद्योग गर्नु

कृदन्तरूपमाला

  • 1“बृहू उद्यमने” 2 क्षीरतरङ्गिणी-धातुकाव्यादिषु दृष्टः पाठ एवम्।
  • अन्ये सर्वे दन्तोष्ठ्यादि ‘वृहू--’ इत्येव पठन्ति।
  • तत्र क्षीरस्वामी ‘बृहु--’ इति उदितं पपाठ।
  • बर्हकः-र्हिका, बर्हकः-र्हिका, बिबर्हिषकः-बिबृक्षकः-क्षिका, बरीबृहकः-हिका;
  • इत्यादीनि सर्वाण्यपि रूपाणि तौदादिकतर्हतिवत् 3 ज्ञेयानि।
  • णिनिप्रत्यये-- 4 जनजीबबर्ही इति।

प्रासङ्गिक्यः

  • ↑ (११३१)
  • ↑ (६-तुदादिः-१३४७। अक। वेट्। पर।)
  • ↑ (७७७)
  • ↑ आ। ‘मुरादिबन्धुः क्षुरघोरचेताः पुरन् खलानां जनजीवबर्ही।’ धा। का। २। ७७।


बृहि भाषायाम्


गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- बृंहयति–ते

अर्थ−
१. बोल्नु, भन्नु ।

कृदन्तरूपमाला

  • 1“बृहि भाषार्थः” 2 आस्वदीयः।
  • ‘--भासार्थः’ इति क्षीरस्वामी।
  • ‘वृद्धौ, भाषार्थविषये बृंहयेद् बर्हयेदिति।।’ 3 इति देवः।
  • बृंहकः-हिका, बिबृंहयिषकः-षिका, बृंहयिता-त्री, बिबृंहयिषिता-त्री;
  • बृंहयन्-न्ती, बिबृंहयिषन्-न्ती, बृंहयिष्यन्-न्ती-ती, बिबृंहयिषिष्यन्-न्ती-ती;
  • बृंहयमाणः, बिबृंहयिषमाणः, बृंहयिष्यमाणः, बिबृंहयिषिष्यमाणः;
  • सुवृट्- सुबृड्-सुबृहौ-सुबृहः;
  • -- -- -- बृंहितम्-तः-तवान्, बिबृंहयिषितः-तवान्, बृंहः, बिबृंहयिषुः;
  • बृंहयितव्यम्, बिबृंहयिषितव्यम्;
  • बृंहणीयम्, बिबृंहयिषणीयम्;
  • बृंह्यम्, बिबृंहयिष्यम्, ईषद्बृंहः-दुर्बृंहः-सुबृंहः;
  • बृंह्यमाणः, बिबृंहयिष्यमाणः, बृंहः, बिबृंहयिषः, बृंहयितुम्, बिबृंहयिषितुम्;
  • बृंहणा, बिबृंहयिषा, बृंहणम्, बिबृंहयिषणम्, बृंहयित्वा, बिबृंहयिषित्वा;
  • प्रबृंह्य, प्रबिबृंहयिष्य;
  • बृंहम् २, बृंहयित्वा २, बिबृंहयिषम् २, बिबृंहयिषित्वा २। 4

प्रासङ्गिक्यः

  • ↑ (११३०)
  • ↑ (१०-चुरादिः-१७६९। सक। सेट्। उभ।)
  • ↑ (श्लो। १९८)
  • ↑ [पृष्ठम्०९३२+ २५]


बृहि वृद्धौ शब्दे च


गणः- भ्वादिः
कर्मकः-अकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- बृंहति

अर्थ−
१. बढ्नु, वृद्धि हुनु,,
२. हात्ती कराउनु, हात्तीको जस्तो शब्द निस्कनु ।

कृदन्तरूपमाला

  • 1“बृहि वृद्धौ शब्दे च” 2 3 अत्र शब्दः-गजशब्द एव, लोके तथैव प्रयोगात्।
  • ‘बृहिर्--’ इति चन्द्रदुर्गौ।
  • ‘… बृंहति बर्हति।
  • वृद्धौ, भाषार्थविषये बृंहयेत् बर्हयेदिति।।’ 4 इति देवः।
  • बृंहकः-बृंहिका, बृंहकः-बृंहिका, बिबृंहिषकः-षिका, बरीबृंहकः-हिका;
  • इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकदर्हतिवत् 5 ज्ञेयानि।
  • 6 परिबृढः- 7 उपबृंहितः, 8 बर्हिः, 9 ब्रह्म।

प्रासङ्गिक्यः

  • ↑ (११२९)
  • ↑ (१-भ्वादिः-७३६। अक। सेट्। पर।)
  • ↑ [पृष्ठम्०९३१+ २६]
  • ↑ (श्लो। १९८)
  • ↑ (८६६)
  • ↑ १। अत्रापि प्रभावभिधेये, ‘प्रभौ परिबृढः’ (७-२-२१) इति क्तप्रत्ययस्यानिट्त्वं तका- रस्य ढत्वं नकारहकारयोर्लोपश्च निपात्यते। अन्यत्र बृहितम् इत्येव। ‘बृंहितं = करिगर्जितम्।’ इति अमरः (२-८-१०७)।
  • ↑ आ। ‘यानैरप्युपबृंहितो विहितवान् प्रातः प्रयातुं मनः।’ धा। का। १। ९२।
  • ↑ २। ‘बृंहेर्नलोपश्च’ (द। उ। ९-३१) इतीसिप्रत्यये नलोपे च रूपम्। पश्चात् गुणः। बर्हिः = वेद्यास्तरणम्।
  • ↑ ३। ‘बृंहिर्नोऽच्च’ (द। उ। ६-७४) इति मनिन्प्रत्यये धातूपधानकारस्य अकारे, पश्चाद् यणि च रूपम्। ब्रह्म = परं तेजः, वेदश्च।



Correction: