संस्कृत-शब्दकोशः

ब्राह्म्योत ब्रूञ्

ब्रू

ब्रूञ् व्यक्तायां वाचि


गणः- अदादिः
कर्मकः-सकर्मकः
इट्-अनिट्
पदम्-परस्मैपदम्
कर्तरि लटि- ब्रवीति–ब्रूते, आह

अर्थ−
१. भन्नु, स्पष्ट बोल्नु ।

कृदन्तरूपमाला

  • 1“ब्रूञ् व्यक्तायां वाचि” 2 3 वाचकः-चिका, वाचकः-चिका, 4 विवक्षकः-क्षिका, वावचकः-चिका;
  • वक्ता-वक्त्री, वाचयिता-त्री, विवक्षिता-त्री, वावचिता-त्री;
  • 5 ब्रुवन्-ती, वाचयन्-न्ती, विवक्षन्-न्ती;
  • -- वक्ष्यन्-न्ती-ती, वाचयिष्यन्-न्ती-ती, विवक्षिष्यन्-न्ती-ती;
  • -- ब्रुवाणः, वाचयमानः, विवक्षमाणः, वावच्यमानः;
  • वक्ष्यमाणः, वाचयिष्यमाणः, विवक्षिष्यमाणः, वावचिष्यमाणः;
  • 6 सुवाक्-सुवाग्-सुवाचौ-सुवाचः;
  • -- -- 7 उक्तम्-उक्तः-उक्तवान्, वाचितम्-तः, विवक्षितः, वावचितः-तवान्;
  • 8 9 ब्रुवः, ब्राह्मणिब्रुवा, 10 विदुषिब्रुवा-विदुषीब्रुवा, श्रेयसिब्रुवा-श्रेयसीब्रुवा, 11 विद्वद्ब्रुवा, श्रेयोब्रुवा, वाक्- 12 वाचा, 13 अनूचानः, 14 15 वाग्ग्मी, वाचालः-वाचाटः, 16 प्रवचनीयः 17, 18 गुणवचनः, वाचः विव क्षुः, वावचः;
  • वक्तव्यम्, वाचयितव्यम्, विवक्षितव्यम्, वावचितव्यम्;
  • प्रवचनीयम्, वाचनीयम्, विवक्षणीयम्, वावचनीयम्;
  • 19 20 वाच्यम्-वाक्यम्, 21 प्रवाच्यम्, अविवाक्यम्, वाच्यम्, वाकोवाक्यम्, विवक्ष्यम्, वावच्यम्;
  • ईषद्वचः-दुर्वचः-सुवचः;
  • -- -- उच्यमानः, वाच्यमानः, विवक्ष्यमाणः, वावच्यमानः;
  • वाचः, 22 अनुवाकः-प्राड्विवाकः, वाचः, विवक्षः, वावचः;
  • वक्तुम्, वाचयितुम्, विवक्षितुम्, वावचितुम्;
  • उक्तिः, 23 निरुक्तम्-पुनरुक्तिः, वाचना, विवक्षा, वावचा;
  • वचनम्, वाचनम्, विवक्षणम्, वावचनम्;
  • उक्त्वा, वाचयित्वा, विवक्षित्वा, वावचित्वा;
  • प्रोच्य, संवाच्य, प्रविवक्ष्य, प्रवावच्य;
  • वाचम् २, उक्त्वा २, वाचम् २, वाचयित्वा २, विवक्षम् २, विवक्षित्वा २, वावचम् २;
  • वावचित्वा २;
  • 24 25 इति ञुण्प्रत्यये ककारस्यान्तादेशे च रूप- मेवम्।
  • कृकेण = गलेन ब्रवीतीति कृकवाकुः = कुक्कुटः। कृकवाकुः 26, 27 उक्थम्, 28 वक्त्रम्, 29 वचः, 30 वचक्नुः।

प्रासङ्गिक्यः

  • ↑ (११३२)
  • ↑ (२-अदादिः-१०४४। अक। [अनि।] सेट्। उभ।)
  • ↑ १। आर्धधातुके विवक्षिते ‘ब्रुवो वचिः’ (२-४-५३) इति वच्यादेशे रूपमेवम्। एवमेव तृजादिषु सर्वत्र शुद्धे, ण्वुलादिषु ण्यन्ते च वच्यादेशे रूपं ज्ञेयम्।
  • ↑ २। सन्नन्ताण्ण्वुलि वच्यादेशे रूपम्। तत्र वच्यादेशस्य ‘पचिं वचिं--’ इत्यानिट्कारिकासु (भाष्ये-७-२-१०) वचनादनिट्त्वम्। कुत्वषत्वयोः रूपमेवम्। एवमेव सन्तन्ते सर्वत्र प्रक्रिया ज्ञेया।
  • ↑ ३। शतरि, अदादित्वात् शपो लुकि, शतुः सार्वधातुकत्वेन ङित्त्वात्, ‘अचि श्नुधातु--’ (६-४-७७) इत्यादिनोवङि रूपमेवम्।
  • ↑ ४। ताच्छीलिके क्विपि, ‘क्विब् वचिप्रच्छि--’ (वा। ३-२-१७८) इति दीर्घोऽसंप्रसारणं च भवति।
  • ↑ ५। निष्ठायाम्, ‘वचिस्वपियजादीनां किति’ (६-१-१५) इति वकारस्य संप्रसारणे, ‘सम्प्रसारणाच्च’ (६-१-१०८) इति पूर्वरूपे च रूपमेवम्। एवमेव क्तिनि, क्त्वायां च रूपनिष्पत्तिर्बोध्या।
  • ↑ [पृष्ठम्०९३३+ २८]
  • ↑ १। ब्रवीति इति ब्रुवः। कर्तरि पचाद्यचि रूपम्। ‘घरूपकल्पचेलट्ब्रुव--’ (६-३-४३) इति सूत्रे ‘ब्रुव’ इति निपातनात् गुणाभावे, वच्यादेशाभावे च रूपम्। अनेनैव सूत्रेण भाषितपुंस्कात् परस्य ङीप्प्रत्ययान्तस्यानेकाचो ह्रस्वः। काशिकायामेव (८-१-२७) सूत्रे ‘ब्रुव इति ब्रुवः कन्, निपातनात् वच्यादेशाभावश्च।’ इत्युक्त- मप्यत्रानुसन्धेयम्।
  • ↑ २। ‘उगितश्च’ (६-३-४५) इति ब्रुवशब्दे परे ह्रस्वविकल्पः।
  • ↑ ३। ‘पुंवद्भावोऽप्यत्र पक्षे वक्तव्यः’ (काशिका। ६-३-४५) इति वृत्तिकार- वचनादत्र पुंवद्भावे विद्वद्ब्रुवा, श्रेयोब्रुवा इति रूपे भवतः। परंतु भाष्ये नैतादृशं वचनं दृश्यते।
  • ↑ ४। क्विबन्तात् स्त्रियां टापि रूपमेवम्। ‘आपं चैव हलन्तानां यथा वाचा निशा दिशा।’ इति भागुरिवचनात् टाप् इति सि। कौमुदी। भाष्ये तु नैतादृशं वचनं दृश्यते।
  • ↑ ५। ‘उपेयिवाननाश्वाननूचानश्च’ (३-२-१०९) इत्यनेन, ‘अनु’ इत्युपसर्गपूर्वकादस्मात् लिटः कर्तरि कानचि, सम्प्रसारणे पूर्वरूपे द्वित्वे सवर्णदीर्घे च ‘अनूचानः’ इति सिद्ध्यति। अनूचानः = साङ्गवेदाध्येता।
  • ↑ आ। ‘इदमूचुरनूचानाः प्रीतिकण्टकितत्वचः।।’ कुमारसम्भवे ६-१५।
  • ↑ ६। वाक्छब्दात् ‘वाचो ग्मिनिः’ (५-२-१२४) इति मत्वर्थीये ग्मिनिप्रत्यये रूपमेवम्। प्रशस्तवाग्वति प्रत्ययोऽयम्। अत्रैव प्रकरणे ‘आलजाटचौ बहुभाषिणि’ (५-२-१२५) इति कुत्सितार्थे मत्वर्थीये आलच्-आटच्प्रत्यययोः वाचालः, वाचाटः इति रूपे इत्यपि ज्ञेयम्।
  • ↑ ७। ‘भव्यगेयप्रवचनीय--’ (३-४-६८) इत्यादिना कर्तरि अनीयर् प्रत्ययः। प्रवचनीयः = ब्राह्मणः। अत्र कर्मण्येव प्रत्ययो निपात्यते इति मते तु प्रवच- नीयः = अनुवाकः।
  • ↑ (ब्राह्मणः, अनुवाको वा)
  • ↑ ८। गुणम् उक्तवान् इति गुणवचनः। ‘कृत्यल्युटो बहुलम्’ (३-३-११३) इति भूते कर्तरि ल्युट्प्रत्ययः। अत्र च निदानम्, ‘गुणवचनब्राह्मणादिभ्यः--’ (५-१-१२४) इत्यत्र ‘गुणवचन--’ इति निर्देश एवेति ज्ञेयम्।
  • ↑ [पृष्ठम्०९३४+ २८]
  • ↑ १। ‘आर्धधातुके’ (२-४-३५) इत्यत्र विषयसप्तमीत्वाश्रयणात् प्रत्ययोत्पत्तेः प्रागेव वच्यादेशे हलन्तलक्षणे ण्यति ‘वचोऽशब्दसंज्ञायाम्’ (७-३-६७) इति कुत्व- निषेधे वाच्यम् इति रूपम्। शब्दसंज्ञायां तु कुत्वे वाक्यम् इत्येव। वाक्यम् = वार्तिकादिरूपः शाब्दिकसंज्ञासिद्धः ग्रन्थः।
  • ↑ २। ‘यजयाचरुचप्रवचर्चश्च’ (७-३-६६) इत्यनेन कुत्वनिषेधे प्रवाच्यम् इति रूपम्। ‘प्रवाच्यम् = ग्रन्थविशेषः’ इति वृत्त्यादिषु प्रोक्तम्। परं तु भाष्ये (७-३-६६) प्रवचिग्रहणप्रत्याख्यानप्रकरणे ‘प्रपूर्वश्च वचिरशब्दसंज्ञायां वर्तते।’ इत्युक्तत्वात् ग्रन्थविशेषस्य प्रवाच्यमिति संज्ञेति पक्षः चिन्त्य इति उद्द्योते प्रकृतसूत्रे स्फुटम्। अविवाक्यम् इत्यत्र तु पृषोदरादित्वात् (६-३-१०९), न्यङ्क्वादित्वात् (७-३-५३) वा अहर्विशेषे कुत्वम्। द्वादशाहे दशरात्रस्य यज्ञ- विशेषस्य दशममहः अविवाक्यम्, यस्मिन्नहनि याज्ञिकाः न विब्रुवते = न नानावाक्यान्युच्चारयन्ति। अन्यत्र अविवाच्यम् इत्येव।
  • ↑ ३। शब्दसंज्ञात्वात् कुत्वमत्रेति ज्ञेयम्। अनुवाकः = श्रुतौ विभागविशेषः। पृच्छतीति प्राट्। विशेषेण सूक्ष्मेक्षिकया न्यायादिकं ब्रवीति-इति विवाकः। प्राट् चासौ विवाकश्च प्राड्विवाकः = नीतिस्थले न्यायवादी। अत्रापि ‘हलश्च’ (३-३-१२१) इति संज्ञायां घञि कुत्वमिति ज्ञेयम्।
  • ↑ ४। पुनरुक्तिः, निरुक्तम् इत्यत्र ‘क्तिच्क्तौ च संज्ञायाम्’ (३-३-१७४) इत्यनेन क्तिच् क्तश्च संज्ञायां भवतः। पुनरुक्तिरिति असकृदाम्नानस्य संज्ञा। एवं निरुक्त- मिति ग्रन्थविशेषस्य संज्ञा।
  • ↑ [पृष्ठम्०९३५+ ३५]
  • ↑ १। ‘कृके वचः कश्च’ [द। उ। १। ९१।]
  • ↑ आ। ‘अनुनयमगृहीत्वा व्याजसुप्ता पराची रुतमथ कृकवाकोस्तारमाकर्ण्य कल्ये।’ शि। व। ११। ९।
  • ↑ २। औणादिके (द। उ। ६। ३२) थक्प्रत्यये सम्प्रसारणे च रूपमेवम्। उक्थम् = सामविशेषः।
  • ↑ ३। ‘गुधृवीपचिवचि--’ (द। उ। ८। ८९) इत्यादिना कर्तरि त्रप्रत्यये रूपम्। ब्रवीत्य- यमिति वक्त्रम् = आस्यम्।
  • ↑ ४। ‘असुन्’ (द। उ। ९। ४९) इत्यनेनासुन्प्रत्यये वच्यादेशे च रूपमेवम्।
  • ↑ ५। ‘सृ यु वचिभ्योऽन्यज् आकूज् अक्नुचः’ (द। उ। १०। ४) इत्यनेन यथासंख्य- मक्नुच्प्रत्यये रूपमेवम्। ब्रवीति इति वचक्नुः = वाग्ग्मी।



Correction: