संस्कृत-शब्दकोशः

भक्षिन् भक्ष्य

भक्ष्

भक्ष अदने


गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- भक्षयति–ते

अर्थ−
१. खानु ।

कृदन्तरूपमाला

  • 1“भक्ष अदने” 2 3 ‘भ्लक्ष अदने’ इत्यत्र भ्वादौ मैत्रेयादयः ‘भक्ष’ इति पठन्ति।
  • तदनुसारेण देवेनापि ‘शपि भक्षति भक्षते।’ 4 इत्युक्तम्।
  • धातुकाव्येऽपि ‘--प्रभ्लक्ष्य भक्षन्ति यदम्बु नीचाः।’ 5 इति शब्विकरणकः प्रयोगः कृतः।
  • परं तु ‘भक्षेरहिंसार्थस्य’ 6 इत्यत्र ‘भक्षयति पिण्डीं देवदत्तः।
  • भक्षयति पिण्डीं देवदत्तेन।’ इति ण्यन्ताद्धेतुमण्णिचि प्रयोज्यस्य कर्मसंज्ञाभावप्रतिपादकभाष्येण भक्षतेः शब्विकरणपाठोऽनभिसंहितः।
  • ‘शीलि- कामिभक्ष्याचरिभ्यो णः’ 7 इत्यत्रापि बार्तिक-भाष्य-कैयटोद्द्यो- तादिषु चौरादिकस्य भक्षयतेरेव प्रत्ययविधानप्रदर्शनादपि भ्वादौ पाठोऽस्याप्रामा- णिक एवेति ज्ञेयम्।
  • स्पष्टमिदं माधवधातुवृत्तौ प्रकृतधातुप्रकरणे इति ज्ञेयम्। 8 ‘भक्षयत्यदने भक्षेः, शपि भक्षति भक्षते।’ 9 इति देवः।
  • भक्षकः-क्षिका, भक्षकः-क्षिका, बिभक्षिषकः-षिका, बाभक्षकः-क्षिका;
  • इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकतक्षतिवत् 10 ज्ञेयानि।

प्रासङ्गिक्यः

  • ↑ (११३५)
  • ↑ (१-भ्वादिः-८९३। सक। सेट्। उभ।)
  • ↑ [आ]
  • ↑ (श्लो। १७७)
  • ↑ (२-२८)
  • ↑ (वा। १-४-५२)
  • ↑ (वा। ३-२-१)
  • ↑ [पृष्ठम्०९३६+ २५]
  • ↑ (श्लो। १७७)
  • ↑ (६९१)



Correction: