संस्कृत-शब्दकोशः

भजि भज्य

भज्

भज विश्राणने


गणः- चुरादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-उभयपदम्
कर्तरि लटि- भाजयति–ते

अर्थ−
१. दिनु, दान गर्नु,
२. पकाउनु, अन्न आदि तयार गर्नु,
३. अलग गर्नु, छुट्याउनु ।

कृदन्तरूपमाला

  • 1“भज विश्राणने” 2 विश्राणनम् = दानम्।
  • ‘सेवायां भजते भजेदिति भजेः, विश्राणने भाजयेद्…’ 3 इति देवः।
  • भाजकः-जिका, बिभाजयिषकः-षिका;
  • भाजयिता-त्री, बिभाजयिषिता-त्री;
  • इत्यादीनि सर्वाण्यपि रूपाणि चौरादिकगर्जयतिवत् 4 ज्ञेयानि।
  • 5 विभाज्य।

प्रासङ्गिक्यः

  • ↑ (११३८)
  • ↑ (१०-चुरादिः-१७३४। सक। सेट्। उभ।)
  • ↑ (श्लो। ६५)
  • ↑ (३७८)
  • ↑ आ। ‘आज्ञापनामिह विभाज्य नृपेण दृष्टौ…।।’ धा। का। ३। ४०।


भज सेवायाम्


गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-अनिट्
पदम्-उभयपदम्
कर्तरि लटि- भजति–ते

अर्थ−
१. भजन गर्नु, सेवा गर्नु,
२. उपभोग गर्नु,
३. विषय-वासनाको अनुभव गर्नु ।
वि-
१. विभक्त गर्नु, बाँड्नु ।

कृदन्तरूपमाला

  • 1“भज सेवायाम्” 2 ‘--विभागसेवयोः’ इति द्रुमे 3।
  • ‘सेवायां भजते भजेदिति भजेः, विश्राणने भाजयेद् आमर्दे तु भनक्ति, भाजयति णौ भाजेः पृथक्कर्मणि।।
  • 4 इति देवः।
  • 5 भाजकः-जिका, भाजकः-जिका, 6 बिभक्षकः-क्षिका, 7 बाभजकः-जिका;
  • 8 भक्ता-भक्त्री, भाजयिता-त्री, बिभक्षिता-त्री;
  • बाभजिता-त्री;
  • भजन्-न्ती, भाजयन्-न्ती, बिभक्षन्-न्ती;
  • -- भक्ष्यन्-न्ती, भाजयिष्यन्-न्ती-ती, बिभक्षिष्यन्-न्ती-ती;
  • -- भजमानः, भाजयमानः, बिभक्षमाणः, बाभज्यमानः;
  • भक्ष्यमाणः, भाजयिष्यमाणः, बिभक्षिष्यमाणः, बाभजिष्यमाणः;
  • 9 देहभाक् 10 -देहभाग्-देहभाजौ-देहभाजः;
  • -- -- विभक्तम्-भक्तवान्, भाजितः, बिभक्षितः, बाभजितः-तवान्;
  • भजः, 11 भागी, 12 भक्तम्-भक्तः, 13 राज्यभाक्-प्रभाक्, 14 भेजिवान् 15, 16 भ्राता, 17 18 धनभाजी, 19 विभक्तिः, 20 भजमानः, भाजः, बिभक्षुः, बाभजः;
  • भक्तव्यम्, भाजयितव्यम्, बिभक्षितव्यम्, बाभजितव्यम्;
  • भजनीयम्, भाजनीयम्, बिभक्षणीयम्, बाभजनीयम्;
  • 21 विभज्यम्, 22 विभाग्यम्, भाज्यम्, बिभक्ष्यम्, बाभज्यम्;
  • ईषद्भजः-दुर्भजः-सुभजः;
  • -- -- भज्यमानः, भाज्यमानः, बिभक्ष्यमाणः, बाभज्यमानः;
  • भागः, 23 भगः, भाजः, बिभक्षः, बाभजः;
  • भक्तुम्, भाजयितुम्, बिभक्षितुम्, बाभजितुम्;
  • 24 भक्तिः- 25 दृढभक्तिः, भाजना, बिभक्षा, बाभजा;
  • 26 भजनम्, भाजनम्, बिभक्षणम्, बाभजनम्;
  • 27 भक्त्वा;
  • भाजयित्वा, बिभक्षित्वा, बाभजित्वा;
  • विभज्य, विभाज्य, प्रबिभक्ष्य, प्रबाभज्य;
  • भाजम् २, भक्त्वा २, भाजम् २, भाजयित्वा २, बिभक्षम् २, बिभक्षित्वा २, बाभजम् २;
  • बाभजित्वा २।

प्रासङ्गिक्यः

  • ↑ (११३७)
  • ↑ (१-भ्वादिः-९९८। सक। अनि। उभ)
  • ↑ (श्लो। १२३)
  • ↑ (श्लो। ६६)
  • ↑ [पृष्ठम्०९३७+ ३१]
  • ↑ १। सन्नन्ताण्ण्वुलि, धातोरनिट्त्वादिडागमाभावे, चर्त्वषत्वयोश्च रूपम्। एवं सन्नन्ते सर्वत्र प्रक्रिया ज्ञेया।
  • ↑ २। यङन्ते सर्वत्र, अभ्यासे दीर्घः, जश्त्वं चेति ज्ञेयम्।
  • ↑ ३। धातोरनिट्त्वात्, चर्त्वे रूपमेवम्। एवं तव्यदादिष्वपि ज्ञेयम्।
  • ↑ ४। ‘भजो ण्विः’ (३-२-६२) इति कर्तरि ण्विप्रत्ययः। प्रत्ययस्य णित्त्वादुपधावृद्धिः। क्विबादिवदयं प्रत्ययः सर्वलीपी। कर्तरि क्विपोऽपवादोऽयम्।
  • ↑ आ। ‘देहभाञ्जि ततः केशान् लुलुञ्च लुलुठे मुहुः।।’ भ। का। १४। ५९।
  • ↑ ५। तच्छीलादिषु कर्तृषु, ‘सम्पृवानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिप- परिरटपरिवदपरिदहपरिमुहदुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरजभज--’ (३-२-१४२) इत्यादिना घिनुण्प्रत्ययः। णित्त्वादुपधावृद्धिः। घित्त्वात्, ‘चजोः कु घिण्ण्यतोः’ (७-३-५२) इति कुत्वमिति च ज्ञेयम्।
  • ↑ ६। आशीरर्थे, ‘क्तिच्क्तौ च संज्ञायाम्’ (३-३-१७४) इति संज्ञायां क्तप्रत्ययः। भक्तम् = अन्नम्। भजतादिति भक्तः = उपासकः।
  • ↑ ७। ‘भजो ण्विः’ (३-२-६२) इत्यत्र उपसर्गे सुपि च उपपदे प्रत्ययविधानाश्रयणादत्र, प्रभाक् इत्यत्र च कर्तरि ण्विप्रत्यय इति ज्ञेयम्।
  • ↑ ८। कर्तरि भूतसामान्ये लिटः क्वसौ, ‘तृफलभजत्रपश्च’ (६-४-१२२) इति एत्वाभ्यास- लोपयोः, ‘वस्वेकाजाद्धसाम्’ (७-२-६७) इतीडागमे च रूपमेवम्।
  • ↑ B। ‘आज्ञानुग्रहभीमकोमलपुरीपाला फलं भेजुषां याऽयोध्येत्यपराजितेति विदिता नाकं परेण स्थिता।’ श्रीगुणरत्नकोशे २३।
  • ↑ ९। ‘तृन्’ (३-२-१३५) इति ताच्छीलिके तृन्प्रत्यये, ‘नप्तृनेष्टृ--’ (द। उ। २-३) इत्यत्र निपातनात् भ्रादेशे च भ्राता इति सिद्ध्यतीति मा। धा। वृत्तावुक्तम्। द। उ। वृत्त्यादिषु भ्राजतेर्जकारलोपे रूपनिष्पादनं कृतम्। ‘श्वशुरः श्वश्र्वा’ (१-२-७१) इत्यत्र भाष्ये तु ‘यदि तावद् बिभर्तीति भ्राता--’ इत्युक्तत्वात् भृञ्धातोरेव भ्रातृशब्दनिष्पत्तिन्याय्येति प्रतिभाति।
  • ↑ [पृष्ठम्०९३८+ २८]
  • ↑ १। ताच्छीलिके णिनिप्रत्यये रूपमेवम्।
  • ↑ २। ‘क्तिच्क्तौ च--’ (३-३-१७४) इत्यनेन संज्ञायां क्तिचि रूपम्। विभक्तिः = प्रथमाद्या विभक्तिः। अत्र सूत्रे (३-३-१७४) आशिषि गम्यमान एव प्रत्यय इत्युक्तम- विवक्षितमिति केचित्।
  • ↑ ३। ‘ताच्छील्यवयोवचनशक्तिषु--’ (३-२-१२९) इत्यनेन ताच्छील्ये गम्ये चानश्प्रत्ययः। शित्त्वाच्छबादिकं भवति।
  • ↑ ४। ‘द्विवचनविभज्योपपदे--’ (५-३-५७) इति सूत्रे विभज्य इति निर्देशात् हलन्तलक्षणण्यदपवादो यत्प्रत्ययोऽत्रेति ज्ञेयम्।
  • ↑ ५। ‘अबाधकान्यपि निपातनानि’ (परिभाषा-१२०) इति दर्शने ण्यत्प्रत्यये कुत्वे च रूपमेवम्। विभाज्यम् इति कुत्वाभावरूपं तु सर्वथा अप्रामाणिकमेव। स्पष्टमिदं प्रकृतसूत्रे (५-३-५७) पदमञ्जर्याम्, उद्द्योते च।
  • ↑ ६। ‘खनो घ च’ (३-३-१२५) इत्यत्र चकाराद् धात्वन्तरेभ्योऽपि घप्रत्ययो भवतीत्यतो- ऽत्र घप्रत्यये, घित्त्वेन कुत्वे च रूपमेवम्। ‘हृद्भग--’ (७-३-१९) इत्यत्र ‘भग--’ इति निर्देश एवात्र निदानम्।
  • ↑ ७। भजनम् = भक्तिः। भावे क्तिन्। दृढभक्तिरित्यत्र दृढा भक्तिरस्येति विग्रहे ‘स्त्रियाः पुंवत्--’ (६-३-३४) इति पूर्वपदस्य पुंवद्भावे रूपमेवम्। प्रियादिषु (६-३-३४) कर्मसाधनस्यैव भक्तिशब्दस्य पाठः, न तु भावसाधनस्य। अतः पुंवद्भावः कथमत्रेति न शङ्क्यम्।
  • ↑ आ। ‘दृढभक्तिरिति ज्येष्ठे राज्यतृष्णापराङ्मुखः।’ रघुवंशे १२-१९।
  • ↑ ८। ल्युटि, अनादेशे रूपमेवम्। स्त्रियां टित्त्वेन ङीपि भजनी इत्येव भवति। भजना इति टाबन्तप्रयोगो लोके दृश्यते। तस्य शास्त्रं मृग्यमेव। ण्यन्तात् स्त्र्यधिकारीये युच्प्रत्ययेऽपि भाजना इत्येव स्यात्, न तु भजना इति।
  • ↑ [पृष्ठम्०९३९+ २६]



Correction: