संस्कृत-शब्दकोशः

प्रभव प्रभविष्णु

प्रभवादि

वाचस्पत्यम्

प्रभवादि ||‍ पु० प्रभव आदिर्येषाम् । प्रभवप्रभृतिषष्टिसंवत्सरेषु स च गुरुमध्यभोगात् गणनीयः । “ज्योतिर्विद इज्य सध्यात् प्रभवादेश सम्भवम् । उचुस्तद्वत् समाद्यादि व- र्षाणामपि सम्भवम्” ज्यो० त० । ते च ज्यो० त० फलस हिताः दर्शिता तच्छब्दे तद्वाक्यमुक्तं वक्ष्यते च तदानयनञ्च ज्यो० त० “शकेन्द्रकालः पृथगाकृति २२ घ्नः शशाङ्कनन्दा- श्वियुगैः ४२९१ समेतः । शराद्रिवस्विन्दु १८७५ हृतः स लब्धः षष्ट्यावशिष्टाः प्रभवादयोऽव्दाः । वर्षवर्जन्तु यच्छेषं सूर्य्यैः १२ संपूर्य्य खीर्मिभिः ६०” (भक्तम्) । प्रभवादिवर्षा- ण्युपक्रम्य “आद्या तु विंशतिर्ब्राह्मी द्वितोया वैष्णवी स्मृता । तृतीया रुद्रदैवत्या श्रेष्ठा मध्याधमा भवेत्” । वृ० सं० ८ अ० अन्यथोक्तं गुरुवर्षशब्दे २६२२ पृष्ठादावुक्तम् ।



Correction: