शब्दकल्पद्रुमः
प्रभावती || स्त्री (प्रभावत् + ङीप् ।)
मालिनाम- कोनविंशवृत्तार्हन्माता । गणानां बीणा । इति हेमचन्द्रः । २ । २०३ ॥ त्रयोदशाक्षरच्छन्दः । यथा, श्रुतबोधे । ३ । २ । “यस्यां प्रिये ! प्रथमकमक्षरद्वयं तुर्य्यन्तथा गुरु नवमं दशान्तिमम् । सान्त्यं भवेद्यतिरपि चेद्युगग्रहैः सालक्ष्यताममृतरुते ! प्रभावती ॥” (सूर्य्यपत्नी । यथा, महाभारते । ५ । ११७ । ८ । “रेमे स तस्यां राजर्षिः प्रभावत्यां यथा रविः ॥” कुमारानुचरमातृगणविशेषः । यथा, तत्रैव । ९ । ४६ । ३ । “प्रभावती विशालाक्षी पलिता गोनसी तथा ॥” वज्रनाभासुरस्य कन्या । सा तु प्रद्युम्नेन विवा- हिता । यथा, हरिवंशे । १४८ । ४१ । “तस्यास्ति कन्यारत्नं हि त्रैलोक्यातिशयं शुभम् । नाम्ना प्रभावती नाम चन्द्राभेव प्रभावती ॥” अङ्गेश्वरचित्ररथस्य स्वनामख्याता भार्य्या । यथा, महाभारते । १३ । ४२ । ८ । “तस्या हि भगिनी तात ! ज्येष्ठा नाम्ना प्रभावती । भार्य्या चित्ररस्थास्य बभूवाङ्गेश्वरस्य च ॥”)