वाचस्पत्यम्
प्रभावत् || त्रि० प्रभा + अस्त्यर्थे मतुप मस्य वः । १ दीप्तियुक्ते स्त्रियां ङीप् । सा च वज्रनाभासुरस्य २ कन्याभेदे । प्रद्युम्नेन तस्याहरणकथा च हरिवं० १५२ अध्यायादौ दृश्या । ३ तापसीभेद भा० व० २८४ अ० । ४ कुमारानुचरमातृभेदे भा० श० ४७ अ० । ५ अङ्गेश्वरस्य चित्तरथस्य भार्य्यायाम् भा० अनु० ४२ अ० । ६ मरुत्तनृपस्य पत्न्यां विदर्भराजदुहितरि मार्क० १३२३ अ० । ७ मणिनामकोनविंशवृत्तार्हन्मातरि ८ गणानां वीणायाञ्च स्त्री हेमच० । ९ त्रयोदशाक्षरपादके छन्दोभेदे “यस्यां प्रिये प्रथमकमक्षरद्वयं तुर्य्यन्तथा गुरु- नवमं दशान्तिमम् । सान्त्यं मवेद्यतिरपि चेद्युगग्रहैः सा लक्षितामृतरुचिरे! ब्रभावती” इति श्रुतबोधः ।
शब्दकल्पद्रुमः
प्रभावान् || [त्] त्रि, (प्रभा अस्त्यस्येति । प्रभा + मतुप् मस्य वः ।)
प्रभायुक्तः । प्रभाशब्दा- दस्त्यर्थे वतुप्रत्ययेन निष्पन्नम् ॥