संस्कृत-शब्दकोशः

प्रभिन्न प्रभुता

प्रभु

वाचस्पत्यम्

प्रभु ||‍ त्रि० प्र + भू—डु । १ स्वामिनि २ कार्य्यसम्पादशक्तियुते “नि- ग्रहानुग्रहे शक्तः प्रभुरित्यभिधीयते” इत्युक्ते ३ निग्रहा- नुग्रहसमर्थे ४ विष्णौ पु० “प्रभवः प्रभुरीश्वरः” विष्णुसं० “कामः कामप्रदः प्रभुः” तत्रैव नामान्तरं तत्र प्रक र्षेण भवनात् प्रभुरितिति भाष्योक्तेः “सर्वासु क्रियासु सामर्थ्यातिशयात् प्रभुः” भाष्योक्तेश्च व्युत्पत्तिभेदात् नामद्वयम् । ५ अष्टमन्वन्तरे देवगणभेदे मार्क० पु० ८० अ० ।


शब्दकल्पद्रुमः

प्रभुः || त्रि (प्रभवतीति । प्र + भू + “विप्रसंभ्यो ड्वसंज्ञायाम् ।” ३ । २ । १८० । इति डुः ।)
अधिपतिः । तत्पर्य्यायः । स्वामी २ ईश्वरः ३ पतिः ४ ईशिता ५ अधिभूः ६ नायकः ७ नेता ८ परिवृढः ९ अधिपः १० । इत्यमरः । ३ । १ । ११ ॥ पालकः ११ । इति शब्दरत्ना- वली ॥ (यथा, भगवद्गीतायाम् । ५ । १४ । “न कर्त्तृत्वं न कर्म्माणि लोकस्य सृजति प्रभुः । न कर्म्मफलसंयोगं स्वभावस्तु प्रवर्त्तते ॥”)
नित्यः । इति धरणिः ॥ शक्तः । इति नानार्थ- रत्नमाला ॥ (यथा, कुमारे । ३ । ४० । “आत्मेश्वराणां न हि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति ॥” श्रेष्ठः । यथा, मनौ । १० । ३ । “वैश्येष्यात् प्रकृतिश्रैष्ठ्यात् नियमस्य च धार- णात् । संस्कारस्य विशेषाच्च वर्णानां ब्राह्मणः प्रभुः ॥”)


शब्दकल्पद्रुमः

प्रभुः || पुं, (प्रभवतीति । प्र + भू + डुः ।)
विष्णुः । इति शब्दरत्नावली ॥ (शिवः । यथा, महा- भारते । १३ । १७ । ३१ । “हरश्च हरिणाक्षश्च सर्व्वभूतहरः प्रभुः ॥”)
पारदः । इति राजनिर्घण्टः ॥ शब्दः । इति धरणिः ॥



Correction: