संस्कृत-शब्दकोशः

प्रभुत्वाक्षेप प्रभूत

प्रभुभक्त

वाचस्पत्यम्

प्रभुभक्त ||‍ त्रि० ७ त० । १ स्वाम्बनुरक्ते । “बह्राशी स्वल्पसन्तुष्टः सुनिद्रः शीघ्रचेतनः । प्रभुभक्तश्च शूरश्च ज्ञातव्याः षड्गुणाः शुनः” चाणक्यः । कुलीने उत्तमे २ धोटके पु० शब्द च० ।


शब्दकल्पद्रुमः

प्रभुभक्तः || पुं, (प्रभोर्भक्तः ।)
उत्तमघोटकः । यथा, “प्रभुभक्ता भक्तिलाश्च कुलीनेषु कुलोत्कटाः ॥” इति शब्दचन्द्रिका ॥ स्वाम्यनुरक्ते, त्रि । यथा, चाणक्यसंग्रहे । “बह्वाशी स्वल्पसन्तुष्टः सुनिद्रः शीघ्रचेतनः । प्रभुभक्तश्च शूरश्च ज्ञातव्याः षट् शुनो गुणाः ॥”



Correction: