संस्कृत-शब्दकोशः

प्रभुता प्रभुभक्त

प्रभुत्वाक्षेप

वाचस्पत्यम्

प्रभुत्वाक्षेप ||‍ पु० अर्थालङ्कारभेदे “धनञ्च बहु लभ्यं ते सुखं क्षेमञ्च वर्त्मनि । न च मे प्राणसन्देहस्तथापि प्रिय! मा स्म गाः । इत्याचक्षाणया हेतून् प्रिवयात्रानुबन्धिनः । प्रमुत्वेनैव रुद्धस्तत् प्रभुत्वाक्षेप उच्यते” । “हे प्रिय! ते विदेशगमने इति अध्याहार्य्यं बहुधनं सुखञ्च तथा बर्त्मनि पथि क्षेमं कुशलञ्च लभ्यम् । अत्र च मे प्राण- सन्देहः न तव शीघ्रंप्रत्यागमनस्य बहुधनलाभस्य च सम्भवादिति भावः । तथापि मास्म गाः मा गच्छ अत्र “प्रिययात्रायाः प्रियस्य विदेशगमनस्य अनुबन्धिनः पोष- कान् हेतून् आचक्षणया कीर्त्तयन्त्या कयाचित् स्वाधीन पतिकयेति शेषः प्रभुत्वेन स्वाधीनतया एव पतिः रुद्धः विदेशगमनात् निवर्त्तितः तस्मात् एषः पुभुत्वाक्षेप उ- च्यते” प्रेम० टीका ।



Correction: