वाचस्पत्यम्
प्रभूत || त्रि० प्र + भू—क्त । १ प्रचुरे अमरः २ उद्गते मेदि० ३ भूते ४ उन्नते च शब्दर० । ततः गोषदा० अस्त्यर्थे वुन् । प्रभूतक प्रचुरबलादियुक्ते त्रि० प्रभूतमाह “आहौ प्रभूतमादिभ्यः” वार्त्ति० ठक् । घ्राभूतिक प्रचुरवक्तरि त्रि० । द्विती- यान्तात् प्रभूतशब्दात् आहौ परे धातुनिर्देशे इक् ठक् । एवम् आदिपदात् पर्य्यप्तमाह पार्य्याप्तिक तद्वक्तरि त्रि० ।
शब्दकल्पद्रुमः
प्रभूतं || त्रि (प्र + भू + क्तः ।)
प्रचुरम् । इत्य- मरः । ३ । १ ६३ ॥ (यथा, कलाविलासे । १ । ९ । “तत्राभूदभिभूतप्रभूतमायानिकायशतधूर्त्तः । सकलकलानिलयानां धुर्य्यः श्रीमूलदेवाख्यः ॥”)
उद्गतम् । इति मेदिनी । ते, १२१ ॥ भूतम् । उन्नतम् । इति शब्दरत्नावली ॥