संस्कृत-शब्दकोशः

प्रभृथ प्रभेश्वर

प्रभेद

वाचस्पत्यम्

प्रभेद ||‍ पु० प्रभिद्यतेऽनेन प्र + भिद—घञ् । १ प्रकारे विशेषे । भावे घञ् । २ भेदे अमरः ।


शब्दकल्पद्रुमः

प्रभेदः || पुं, (प्र + भिद् + घञ् ।)
भेदः । तत्- पर्य्यायः । प्रकारः २ विशेषः ३ भिदा ४ अन्तरम् ५ । इति जटाधरः ॥ (यथा, सुश्रुते निदानस्थाने १० अध्याये । “पित्तात्मको द्रुतगतिर्ज्वरदाहपाक- स्फोटप्रभेदबहुलः क्षतजप्रकाशः ॥” स्फोटनम् । यथा, रघुः । ३ । ३७ । “बभूव तेनातितरां सुदुःसहः कटप्रभेदेन करीव पार्थिवः ॥”)



Correction: