वाचस्पत्यम्
प्रमत्त || त्रि० प्र + मद—क्त । १ अनवधानतायुक्ते प्रमादयुक्ते कर्त्तव्येऽकर्त्तव्यताज्ञानेन अकर्त्तव्ये वा कर्त्तव्यताधिया तत्रावधानशून्ये “मत्तं प्रमत्तसुन्मत्तं सुप्तं बालं स्त्रिशं जडम् । प्रपन्नं विरथं भीतं न रिपुं हन्ति धर्मवित्” भाग० १ । ७ अ० “मत्तं मद्यादिना, प्रमत्तमनवहितम्” उन्मत्तं ग्रहवातादिना जडम् अनुद्यमम् । प्रपन्नं शर- णागतम्, विरर्थ भानरथम्” श्रीधरस्वामी । “सुप्तां मत्तां प्रमत्तां वा रही यत्रोपगच्छति” मनुः । “सन्ध्या पूजाविहीनश्च प्रमत्तः परिकीर्त्तितः” ब्रह्मव० पु० ७ अ० उक्ते २ सन्ध्यादिहीने च ।
शब्दकल्पद्रुमः
प्रमत्तः || त्रि (प्रमाद्यति स्मेति । प्र + मद् + गत्य- र्थेति क्तः । नध्याख्येति नत्वाभावः ।)
प्रमादी । अनवधानतायुक्तः । यथा, —
“मत्तं प्रमत्तमुन्मत्तं सुप्तं बालं स्त्रियं जडम् । प्रपन्नं विरथं भीतं न रिपुं हन्ति धर्म्मवित् ॥” इति श्रीभागवते १ स्कन्धे ७ अध्यायः ॥ “मत्तं मद्यादिना । प्रमत्तमनवहितम् । उन्मत्तं ग्रहवातादिना । जडं अनुद्यमम् । प्रपन्नं शरणा- गतम् । विरथं भग्नरथम् ।” इति श्रीधरस्वामी ॥ अपरप्रमत्तो यथा, —
“सन्ध्यापूजाविहीनश्च प्रमत्तः पतितः स्मृतः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २७ अध्यायः ॥ स च राज्ञा नाह्वानयतिव्यः । यथा, —
“मत्तोन्मत्तप्रमत्तार्त्तभृत्यान्नाह्वानयेन्नृपः ॥” इति मिताक्षरा ॥