वाचस्पत्यम्
प्रमथ || पु० प्रमथ्नाति प्र + मथ—अच् । १ धृतराष्ट्रपुत्रभेदे भा० आ० ११७ अ० । २ घोटके ३ शिवपारिषदभेदे च शब्दरत्ना० तत्स्वरूपसंख्यादि यथा ||“नानारूपधरा ये वै जटाचन्द्रार्द्धमण्डिताः । ते सर्वे- सकलैश्वर्य्ययुक्ता ध्यानपरायणाः । योगिनो मदमात्सर्य्य दम्भाहङ्कारवर्जिताः । क्षीणपापा महाभागाः शम्भोः प्रीतिकराः पराः । न ते परिग्रहं रागं काङ्क्षन्ति स्म कदाचन । संसारविमुखाः सर्बे यतयो यीगतत्पराः । ध्यानावस्थं महादेवं परिवार्य्य धृतव्रताः । कृत्वा परि षदं रुच्या तिष्ठन्ति विगतक्लमाः । यदैव परमं ज्योतिः चिन्तयत्यम्बिकावतिः । तदैव ते पारिषदाः सर्वे सवेष्ट- यन्ति तम् । ते षोडश समाख्याताः कोटयोवै धृतघ्रताः । सिंहव्याघ्रादिसारूव्या अणिमादिसमायुताः । अपरे कामिनः शम्भोः सुनर्म्मसचिवाः स्मृताः । विचित्ररू- पाभरणा जटाचन्द्रार्द्धमण्डिताः । हरस्य तुल्याः रूपेण विशदा वृषभघ्वजाः । उमासदृशरूपाभिः प्रम- दाभिः समागताः । विचित्रमाल्याभरणा दिव्यस्रग्गन्ध भूषणाः । उमाहहायं क्रीडन्तमनुगच्छन्ति भूतिताः । शृङारवेशाभरला अष्टौ ते कोटयो नणाः । अद्धैमारी- श्वराश्चान्ये ह्यर्द्धनारोश्वरं हरम् । अनुयान्ति महा- भागास्तुल्यरूपा हरस्य ये । उमासहायो हि यदा रनते स्म सुण हरः । अर्द्धनारीशरीरास्तु द्वारपाला भवन्ति ते । आकाशमार्शे गच्छन्तमनुगच्छन्ति नित्यशः । ध्यानस्थं परिचर्य्यन्ति सलिलादिभिरीश्चरम । नाना- शस्त्रधराः शम्भीर्गणास्तु प्रमथाः स्मृताः । प्रमथ्नन्ति च युद्धेषु युध्यमानान्महाबलानः ते वे स हावलाः शूराः संख्याता बसुलोटयः । श्वरे ब्रामनास्तालकदङ्गपण- पावाभिः । मृस्यन्ति वाद्यं कुर्वन्तो मावन्ति सत्तुरस्यरम् । नानारूपधरास्ते वै संख्यया कोटयस्त्रिकाः। सततं चा- नुनच्छन्ति विचरन्तं महेश्चरम् । सर्वे नायाविनः शूराः सर्वे शास्तार्थपारगाः । सर्वे सर्बत्र सर्वज्ञाः सर्वे सर्वत्रगाः सदा । मुहूर्त्तात् सर्वभुवनं मत्वाऽऽयान्ति पुनःपुनः । अणिमाद्यष्टकैश्वर्व्ययुक्तास्तेवै महावसाः । अपरे रुद्र- नामानो जटाचन्द्रार्द्धमखिताः । देवेन्द्रस्व नियोगेन वर्त्तन्ते त्रिदिवे सदा । तेषां संख्या चैककोटिस्ते सर्वे बलवत्तमाः । कुर्वन्ति हि सदा सेवां हरस्य सततं गणाः । विध्वं सयन्ति पापिष्ठान् धर्मिष्ठान् पालयन्ति च । अनु- गृह्णन्ति सततं धृतपाशुपतव्रतान् । बिघ्नांश्च सततं हन्ति योगिन वयतात्मनाम् । षटत्रिंशत् कोटयश्चैते हरस्य सकला गणाः” कालिका पु० २९ अ० । तेषामुत्पत्ति कथा तत्रैवाध्याये दृश्या । ४ हरीतक्यां स्त्री मेदि० ।
शब्दकल्पद्रुमः
प्रमथः || पुं, (प्रमथतीति । प्र + मथ् + अच् ।)
षोटकः । शिवपारिषदः । इति शब्दरत्ना- वली ॥ स च षट्त्रिंशत्कोटिसंख्यकः । यथा, “षट्त्रिंशत्तु सहस्राणि प्रमथा द्बिजसत्तमाः । तत्रैकत्र सहस्राणि भागे षोडश संस्थिताः ॥ नानारूपधरा ये वै जटाचन्द्रार्द्धमण्डिताः । ते सर्व्वे सकलैश्वर्य्ययुक्ता ध्यानपरायणाः ॥ योगिनो मदमात्सर्य्यदम्भाहङ्कारवर्ज्जिताः । क्षीणपापा महाभागाः शम्भोः प्रीतिकराः पराः ॥ न ते परिग्रहं रागं काङ्क्षन्ति स्म कदाचन । संसारविमुखाः सर्व्वे यतयो योगतत्पराः ॥ ध्यानावस्थं महादेवं परिवार्य्य धृतव्रताः । कृत्वा परिवदं रुच्या तिष्ठन्ति विगतक्लमाः ॥ यदैव परमं ज्योतिश्चिन्तयत्यम्बिकापतिः । तदैव ते पारिषदाः सर्व्वे संबेष्टयन्ति तम् ॥ ते षोडश समाख्याताः कोटयो ये धृतव्रताः । सिंहव्याघ्रादिसारूप्या अणिमादिसमायुताः ॥ * ॥
अपरे कामिनः शम्भोः सुनर्म्मसचिवाः स्मृताः । विचित्ररूपाभरणा जटाचन्द्रार्द्धमण्डिताः ॥ हरस्य तुल्या रूपेण विशदा वृषभध्वजाः । उमासदृशरूपाभिः प्रमदाभिः समागताः ॥ विचित्रमाल्याभरणा दिव्यस्रग्गन्धभूषणाः । उमासहायं क्रीडन्तमनुगच्छन्ति भूषिताः । शृङ्गारवेशाभरणा अष्टौ ते कोटयो गणाः ॥ * ॥
अर्द्धनारीश्वराश्चान्ये ह्यर्द्धनारीश्वरं हरम् । अनुयान्ति महाभागास्तुल्यरूपा हरस्य ये ॥ उमासहायो हि यदा रमते स्म सुखं हरः । अर्द्धनारीशरीरास्तु द्वारपाला भवन्ति ते ॥ आकाशमार्गे गच्छन्तमनुगच्छन्ति नित्यशः । ध्यानस्थं परिचर्य्यन्ति सलिलादिभिरीश्वरम् ॥ नानाशस्त्रधराः शम्भोर्गणास्तु प्रमथाः स्मृताः । प्रमथ्नन्ति च युद्धेषु युध्यमानान्महावलान् । ते वै महाबलाः शूराः संख्यया नवकोटयः ॥ * ॥
अपरे गायनास्तालमृदङ्गपणवादिभिः । नृत्यन्ति वाद्यं कुर्व्वन्तो गायन्ति मधुरस्वरम् ॥ नानारूपधरास्ते वै संख्यया कोटयास्त्रयः । सततं चानुगच्छन्ति विचरन्तं महेश्वरम् ॥ सर्व्वे मायाविनः शूराः सर्व्वे शास्त्रार्थपारगाः । सर्व्वे सर्व्वत्र सर्व्वज्ञाः सर्व्वे सर्व्वत्रगाः सदा ॥ मुहूर्त्तात् सर्व्वभुवनं गत्वा यान्ति पुनः पुनः । अनिमाद्यष्टकैश्वर्य्ययुक्तास्ते वै महाबलाः ॥ अपरे रुद्रनामानो जटाचन्द्रार्द्धमण्डिताः । देवेन्द्रस्य नियोगेन वर्त्तन्ते त्रिदिवे सदा ॥ तेषां संख्या चैककोटिस्ते सर्व्वे बलवत्तराः । कुर्व्वन्ति हि सदा सेवां हरस्य सततं गणाः ॥ विस्मयन्ति च पापिष्ठान् धर्म्मष्ठान् पालयन्ति च । अनुगृह्णन्ति सततं धृतपाशुपतव्रतान् ॥ विघ्नांश्च सततं हन्ति योगिनां प्रयतात्मनाम् । षट्त्रिंशत् कोटयश्चैते हरस्य सकला गणाः ॥ वराहगणनाशार्थं हिताय जगर्तां तथा । शङ्करस्य च सेवायै समुत्पन्ना इमे गणाः ॥ वराहस्य गणान् दृष्ट्वा नरसिंहं तथा हरिम् । स्वयं सरभरूपः सन् ध्यायन् नादं यतोऽकरोत् ॥ तच्छीकराम्बुतो जातास्तत्तेषां बहुरूपता । क्रूरदृष्ट्या क्रूरयुद्धैः क्रूरकृत्यैरिमान् गणान् ॥ वराहस्य हतेत्येवं यतः प्रोक्तं कपर्द्दिना । ततस्ते क्रूरकर्म्माणः प्रताजाश्च भयङ्कराः ॥ न सदा क्रूरकर्म्माणि ते कुर्व्वन्ति महौजसः । दृष्टिमात्रस्य ते क्रूराः क्रूरक्रूराश्च कार्य्यतः ॥ फलं जलं तथा पुष्पं पत्रं मूलं तथैव च । निवेदितानि भुञ्जन्ति वनपर्व्वतसानुषु ॥ आहृत्यापि च भुजन्ति पत्रं पुष्पादिकञ्च यत् । भवेद्भर्गस्य यद्भोग्यं तद्भोगास्ते महौजसः ॥ आमिषं नापि चाश्नन्ति हित्वा चैत्रचतुर्द्दशीम् । तत्रामिषं हरो भुङ्क्ते चतुर्द्दश्यां मधौ सदा ॥ ततः सर्व्वे गणास्तत्र भुञ्जन्ते पललान्यपि । हते वराहस्य गणे भर्गमासाद्य ते गणाः । चतुर्भागाः स्वयं भूत्वा भूतं कर्म्मेति वै जगुः ॥ भूतत्वमभवत्तेषां चतुर्भागवतां तदा । वचनात् पद्मजातस्य भूतग्रामास्ततो मताः ॥ यो लोकविदितः पूर्ब्बं भूतग्रामश्चतुर्व्विधः । यतस्तेभ्योऽधिका यत्नैस्तद्दृढग्राम उच्यते ॥ इति वः सर्व्वमाख्यातं भूताः शम्भुगणा यथा । यदाहारा यदाकारा यत्कृत्यास्ते महौजसः ॥ य इदं शृणुयान्नित्यमाख्यानं योगमुत्तमम् । स दीर्घायुः सदोत्माही योगयुक्तश्च जायते ॥” इति कालिकापुराणे पारिषदोत्पत्तिर्नाम २९ अध्यायः ॥ (धृतराष्ट्रपुत्त्राणामन्यतमः । यथा, महाभारते । १ । ११७ । १२ । “प्रमथश्च प्रमाथी च दीर्घरोमश्च वीर्य्यवान् ॥”)