वाचस्पत्यम्
प्रमाणबाधितार्थक || पु० प्रमाणेन बाधितोऽर्थो यस्य कप् । तर्कभेदे तर्कशब्दे ३२५५ पृ० दृश्यम् ।
शब्दकल्पद्रुमः
प्रमाणबाधितार्थकः || पुं, (प्रमाणेन वाधितः अर्थो यस्य । ततः कप् ।)
तर्कविशेषः । तस्य लक्ष- णम् । आत्माश्रयादिचतुष्कान्यप्रसङ्गत्वम् । स द्विविधः । व्याप्तिग्राहकः विषयपरिशोधकश्च । तत्राद्यो यथा । धूमो यदि वह्निव्यभिचारी स्यात्तदा वह्निजन्यो न स्यात् । द्बितीयस्तु पर्व्वतो यदि निर्वह्रिः स्यात्तदा निर्घूमः स्यात् । इति तर्कजागदीशी ॥