संस्कृत-शब्दकोशः

प्रमा प्रमाणबाधितार्थक

प्रमाण

वाचस्पत्यम्

प्रमाण ||‍ न० प्र + मा—भावे कैरणे वा ल्युट् । १ प्रमारूपज्ञाने २ विष्णौ “प्रमाणं प्राणनिलयः” विष्णुस० । प्रमार्ण “प्रज्ञानं ब्रह्मेति” श्रुतेस्तस्य ज्ञानरूपत्वात् तथात्वम् “प्र- माणं बीजमव्ययम्” विष्णु स० प्रत्यक्षादिप्रमाणरूपत्त्वात्तस्य तथात्वं व्यत्पत्तिद्वययोगात् नामद्वयम् । ३ सत्यवादनि ४ इयत्तायां परिच्छेदे ५ हेतौ ६ प्रमातरि च मेदि० । ७ प्रमितिकरणे चक्षरादौ “यस्येप्साजिहासाप्रयुक्तस्य प्रवृत्तिः स प्रमाता स येनार्थं प्रमिणोति तत्प्रमाणम्” वात्स्या० “तच्च साधनाश्रयव्यतिरिक्तत्वे सति प्रमाव्याप्तं प्रमाणमिति” सर्वद० अक्षपाददर्शने । “तद्वति तत्प्रकार- कत्वरूपप्रकर्षविशिष्टज्ञानकरणत्वम्” गौ० वृ० । “अनुभव- त्वव्याप्यजात्यवच्छिन्नप्रमावृत्तिकार्य्य तानिरूपितकारणता- शालित्वे सति व्यापारवत्त्वम् तत्त्वम्” तर्कप्रकाशे शिति- कण्ठः । प्रमाणत्वं च अनधिगतार्थकानुभवकारणत्वम् । तच्च गृहीतग्राहीतरानुभवकारणत्वम् । स्वसमानाधि- करणस्वाव्यवहितपूर्ववर्त्तिस्वसमानाकारनिश्चयविषयविषय- केतरतद्वद्विशेष्यकतत्प्रकारकानुभवकारणत्वमिति या- वत् न्यायकुसुमाञ्जलिटी० । “यज्जातीयविशिष्टज्ञानत्वा- वच्छेदेन समानाकारनिश्चयोत्तरत्वं तज्जातीयान्ययथा- र्थज्ञानस्यैवागृहीतग्राहित्वेन प्रमात्वात् अतएव धारा- वाहिप्रत्यक्षव्यक्तीनां समानाकारग्रहोत्तरवर्त्तित्वेऽपि न तासां प्रमात्वहानिः हानिस्तु समानाकारानुभवसमु- त्थानां स्मृतीनामिति” शब्द० प्र० । न्यायनय चत्वारि- प्रमाणानि । प्रत्यक्षम् । अनुमानम् । उपमानम् । शब्दः गौ० सू० प्रकारान्तरेण प्रमाणं द्विविधम् “शब्दोपजीवि शब्दानुपजीवि” कुसुमाञ्जलिटी० । प्रत्यक्षमेकमेव प्रमा- णमिति चार्वाकाः सङ्गिरन्ते । प्रत्यक्षमनुमानं चेति द्वे प्रमाणे इति बैशेषिका बौद्धा आर्हताश्च । प्रत्यक्षं शब्दश्चेति द्वे प्रमाणे इति श्रीमदानन्दतीर्थभगवत्पादाचार्य्याः । प्र- त्यक्षमनुभानमाप्तवचनमिति त्रीणि प्रमाणानीति सांख्या वेदान्तिनश्च । प्रत्यक्षानुमानोपमानानि त्रीणीति नैया- यिकैकदेशिनः । प्रत्यक्षानुमानीपमानशब्दा अर्थापत्तिश्चेति पञ्च प्रमाणानीति प्राभाकराः । प्रत्यक्षानुमानोपमानशब्दा अर्थापत्तिरनुपलब्धिश्चेति षट्प्रमाणानीत्यपरे भाट्टावेदा- न्तिभेदाश्च । सम्भवैतिह्ये अप्यतिरिक्ते प्रमाणे इति पौ- राणिकाः । चेष्टाप्यतिरिक्तं प्रमाणामित तान्त्रिकाः । तत्र सांख्यपातञ्जलवेदान्तिमते अन्तःकरणवृत्तीनां पौरु- षेयचित्तवृत्तिप्रकाशरूपबोधे करणत्वम् अन्तःकरण- वृत्तिषु च ज्ञानत्वारोपेण तत्करणत्वमिन्द्रियाणामिति भेदः । यथोक्तं सां० प्र० भा० “प्रमाता चेतनः शुद्धः प्रमाणं वृत्तिरेव नः । प्रमाऽर्थाकारवृत्तीनां चेतने प्रतिबिम्बनम् । प्रतिबिम्बितवृत्तीनां विषयो मेय उच्यते । साक्षाद्द- र्शनरूपं च साक्षित्वं वक्ष्यति स्वयम् । अतः स्यात् कार- णाभावाद्वृत्तेः साक्ष्येव चेतनः । विष्ण्वादेः सर्वसाक्षित्वं गौणं लिङ्गाद्यभावतः” । “प्रमाणविपर्य्ययविकल्पनिद्राः स्मृतयः” पात० सू० “इन्द्रियप्रणालिकया चित्तस्य बाह्य- वस्तूपरागात् तद्विषयसामान्यविशेषात्मनोऽर्थस्य विशेषाव- धारणं प्रधाना वृत्तिः प्रत्यक्षं प्रमाणं, फलमविशिष्टः पौ- रुषेयश्चित्तवृत्तिबोधः” भाष्यम् “अनधिगततत्त्वबोधः पौरुषेयो व्यवहारहेतुः प्रमा तत्करणं प्रमाणम् । ननु पुरुषवर्त्ती बोधः कथं चित्तगतायावृत्तेः फलं न हि खदिरगोचरव्यापारेण परशुना पलाशे छिदा क्रियते इत्यत आह अविशिष्ट इति । न हि पुरुषगतो बोधो जन्यते अपि तु चैतन्यमेव बुद्धिदर्पर्णप्रतिबिम्बितं बुद्धि- वृत्त्या अर्थाकारया तदाकारतामापाद्यमानं फलम् । तच्च तथाभूतं बुद्धेरविशिष्टं बुद्ध्यात्मिका वृत्तिः वृत्तिश्च बुद्ध्यात्मिकेति सामानाधिकरण्याद्युक्तः प्रमाणफलभाव इत्यर्थः” विव० । प्रमाणस्य भावः ष्यञ् प्रामाण्य न० तल् प्रमाणता स्त्री त्व प्रमाणत्व न० प्रमाणभावे प्रमितिकर- णत्वे प्रमात्वे च । उद्देश्यविधेयभावेनान्वयस्थले प्रमाण- शब्दस्य प्रमाकरणपरत्वे क्वचिदेकवचनता यथा “वेदाः प्रमाणं स्मृतयः प्रमाणम्” इत्यादौ । क्वचित्तुबहुवचनता यथा “प्रत्यक्षानुमानोपमानागमाः प्रमाणानि” गौ० सू० । तत्र पू- र्वत्र शाब्दत्वरूपप्रमात्वजातेरेकत्वात् एकवचनत्वम् । उत्तरत्र प्रत्यक्षत्वादिजातिचतुष्टयकरणानां बहुत्वात् बहुवचनता इति प्रथमाव्युत्पादे गदाधरेण प्रपञ्चितम् तत्र दृश्यम् । सामान्यत्वात् क्लीवतैवास्य । क्वचित्तु विशेषपरत्वे स्त्रीत्व- परता यथा ष्रमाणी । स्त्री प्रमाणी यस्य ब० ब्री० “अप् पूरणीप्रमाण्योः” पा० अप्समा० न कप् । श्रीप्रमाण इत्येव सि० कौ० । ८ परिमाणभेदे च । “प्रमाणे मात्रजद्वयसज्- दघ्नचः” षा० वृत्तौ दृश्यम् ।


शब्दकल्पद्रुमः

प्रमाणं || क्ली (प्रमीयते विश्वमनेनेति । प्र + मा + ल्युट् ।)
विष्णुः । यथा, —
“प्रमाणं प्राणनिलयः प्राणभृत् प्राणजीवनः ॥” इति महाभारते शान्तिशर्व्वणि दानधर्म्मः ॥ नित्यम् । मर्य्यादा । शास्त्रम् । (यथा, —
“आप्ता ह्यवितर्कस्मृतिविभागविदो निष्प्री- त्युपतापदर्शिनश्च । तेषामेवङ्गुणयोगात् यद्व- चनं तत् प्रमाणम् । अप्रमाणं पुनर्मर्त्तोन्मत्त- मूर्खरक्तदुष्टादुष्टवचनमिति ।” इति चरके विमानस्थाने चतुर्थेऽध्याये ॥)
सत्यवादी । (प्र + मा + भावे ल्युट् ।)
इत्यत्ता । हेतुः । (प्रमिणोतीति । प्र + मा + कर्त्तरि ल्युः ।)
प्रमाता । इति मेदिनी । णे, ६१ ॥ प्रमा । इति शब्दरत्नावली ॥ नित्यक्लीवैकत्ववानयं शब्दः । यथा वेदाः प्रमाणं स्मृतयः प्रमाण- मित्यादि ॥ प्रमायाः करणम् । न्याये तु प्रत्यक्षा- नुमानोपमानशब्दाः प्रमाणानि । इत्यत्र बहु- वचनान्तोऽपि ॥ (यथा, मनौ । २ । १३ । “अर्थकामेष्वसक्तानां धर्म्मज्ञानं विधीयते । धर्म्मं जिज्ञासमानानां प्रमाणं परमं श्रुतिः ॥” वेदान्तसारे च । “वेदान्तो नाम उपतिषत् प्रमाणं तदुपकारीणि शारीरिकसूत्रादीनि च ॥” “उपनिषच्छब्दो ब्रह्मात्मैक्यसाक्षात्कारविषयः । सैव उपनिषत् प्रमाणं तस्याः प्रमारूपायाः करणभूता ।” इति विद्वन्मनोरञ्जनीटीका ॥)



Correction: