वाचस्पत्यम्
प्रमाथिन् || त्रि० प्रमथ्नाति प्र + मथ—णिनि । १ बलाद् हारके २ पीडके च । “इन्द्रियाणि प्रमाथीनि” गीतां । स्त्रियां ङीप् । सा च ३ अप्सरोभेदे भा० आ० १२४ अ० । ४ रा- क्षसभेदे पु० भा० व० २८४ अ०
शब्दकल्पद्रुमः
प्रमाथी || [न्] त्रि, प्रपूर्ब्बमथधातोः कर्त्तरि णिन् । पीडनकर्त्ता । मारणकर्त्ता । प्रमथनशीलः । देहेन्द्रियक्षोभक इत्यर्थः । इति श्रीधरस्वामी ॥ यथा, —
“चञ्चलं हि मनः कृष्ण ! प्रमाथि बलवद्दृढम् ॥” अपि च । “इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥” इति श्रीभगवद्गीता ॥