वाचस्पत्यम्
प्रमादवत् || पु० प्रमादोऽस्त्यस्य मतुप् मस्य वः । १ प्रमादयुते २ असमीक्ष्यकारिणि जटा० ।
शब्दकल्पद्रुमः
प्रमादवान् || [त्] त्रि, (प्रमादोऽस्त्यस्यास्मिन् वा । प्रमाद + मतुप् । मस्य वः ।)
प्रमादयुक्तः । तत्- पर्य्यायः । जाल्मः २ असमीक्ष्यकारी ३ खट्वा- रूढः ४ । इति जटाधरः ॥ (यथा, याज्ञ- वल्क्ये । ३ । १३९ । “निद्रालुः क्रूरकृल्लुब्धो नास्तिको याचकस्तथा । प्रमादवान् भिन्नवृत्तो भवेत्तिर्य्यक्षु तामसः ॥”)