संस्कृत-शब्दकोशः

प्रमाथिन् प्रमादवत्

प्रमाद

वाचस्पत्यम्

प्रमाद ||‍ पु० प्र + मद—घञ् । १ कर्त्तव्ये अकर्त्तव्यत्वघिया ततो निवृत्तौ अकर्त्तव्ये कर्त्तव्यत्वधिया तत्र प्रवृत्तौ बा अनव- धानतायाम् अमरः । अनवधानताशब्दे १५२ पृ० दृश्यम् । स च तमोगुणमार्य्यः तमस्शब्दे ३२३५ पृ० दृश्यम् । तस्य सम्मोहरूपत्वात्तत्कार्य्यत्वं बोध्यम् ।


शब्दकल्पद्रुमः

प्रमादः || पुं, (प्र + मद् + भावे + घञ् ।)
अनव- धानता । इत्यमरः । १ । ७ । ३० ॥ यथा, —
“लोभप्रमादविश्वासैः पुरुषो नश्यते त्रिभिः । तस्माल्लोभो न कर्त्तव्यः प्रमादो न न विश्वसेत् ॥” इति गारुडे नीतिसारे ११५ अध्यायः ॥



Correction: