वाचस्पत्यम्
प्रमुख || न० प्रकृष्टं मुखमारम्भः । १ तदादित्व त्रिका० प्रकृष्टं मुस्वमस्य । २ प्रथमे ३ प्रधाने अमरः ४ मान्ये ५ श्रेष्ठे च त्रि० मेदि० ६ पुन्नानवृक्षे पु० शब्दरत्ना० ७ समूहे पु० शब्दच० । बहु० । उत्तरपदस्थः । तदादिके त्रि० ।
शब्दकल्पद्रुमः
प्रमुखं || क्ली (प्रकृष्टं मुखमारम्भः ।)
तदात्वम् । तत्कालः । इति त्रिकाण्डशेषः ॥ (सम्मुखम् । यथा, भगवद्गीतायाम् । २ । ६ । “यानेव हत्वा न जिजीविषाम- स्येऽवस्थिताः प्रमुखे धार्त्तराष्ट्राः ॥”)
शब्दकल्पद्रुमः
प्रमुखः || त्रि (प्रकृष्टं मुखमाद्यं यस्य ।)
प्रधा- नम् । (यथा, कुमारसम्भवे । २ । ३८ । “ज्वलन्मणिशिखाश्चैनं वासुकिप्रमुखा निशि । स्थिरप्रदीपतामेत्य भुजङ्गाः पर्य्युपासते ॥”)
श्रेष्ठः । इत्यमरः । ३ । १ । ५७ ॥ (यथा, हितोपदेशे । ३ । १२४ । “बलेषु प्रमुखो हस्ती न तथान्यो महीपतेः ॥”)
प्रथमः । इति मेदिनी । खे, १० ॥ (यथा, महाभारते । २ । ६ । २ । “नारदप्रमुखास्तस्यामन्तर्व्वेद्यां महात्मनः । समासीनाः शुशुभिरे सह राजर्षिभिस्तथा ॥”)
मान्यः । इति शब्दरत्नावली ॥
शब्दकल्पद्रुमः
प्रमुखः || पुं, (प्रकृष्टं मुखं अग्रभागो यस्य ।)
पुन्नागवृक्षः । इति शब्दचन्द्रिका ॥ समूहः । इति शब्दरत्नावली ॥