वाचस्पत्यम्
प्रमेय || त्रि० प्र + मा—कर्मणि यत् । १ प्रमाज्ञानविषये पदार्थे २ परिच्छेद्ये २ अवधार्य्य च । तत्र वेदान्ते शुद्धर्चतन्यं प्रमेयम् अन्यस्याध्यासमूलकत्वेन व्यवहारिकप्रमाज्ञा- नविधत्वेऽपि न परमार्थप्रमेयत्वम् । न्यायनये “आ- त्मशरीरान्द्रयार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःस्वाप- वर्गास्तु प्रमेयम्” गौ० सू० उक्ताः आत्मादयः । प्रमेयत्वं च केवलान्वयि सर्वेषामीश्वरज्ञानरूपप्रमावियत्वात् ।