संस्कृत-शब्दकोशः

प्रयत्नवत् प्रयन्त

प्रयत्नशैथिल्य

वाचस्पत्यम्

प्रयत्नशैथिल्य ||‍ ६ त० । स्वाभाविकप्रयत्नस्योपरमपूर्वकप्रयत्नभेदे- तच्च योगाङ्गासनसिद्धिकारणं यथोक्तं “प्रयत्नशैथि- ल्यानन्तसमापत्तिभ्याम्” पा० सू० “भवतीति शेषः प्रयत्नो परमात् सिद्ध्यत्यासनं येन नाङ्गमेजयो भवति अनन्ते वा समापन्नं चित्तमासन निर्वर्त्तयतीति” भा० “सां सिद्धिकोहि प्रयत्नः शरीरधारको न यागाङ्गस्योपदेष्ट- व्यासनस्य कारणं तस्य तत्कारणत्वे उपदेशवैयर्थ्यात् स्वरसत एव तत्सिद्धेः तस्मादुपदेष्टव्यस्यासनस्यायमसा० धकः विरोधी च स्वाभाविकः प्रयत्नः । तस्य च यादृ- च्छिकासनहेतुतयासनवियमोपहर्तृत्वात् । तस्मादुपदिष्ट- नियमासनमभ्यस्यता स्वाभाविकप्रयचशैथिल्यात्मा प्रयत्न आस्थेयो नान्यथोपदिष्टमासनं सिध्यतीति स्वाभाविक प्रयत्नशैथिल्यमासनसिद्धिहेतुः अनन्ते वा नागनायके स्थि- रतरफणासहस्नविधृतविश्वम्भरामण्डले समापन्नं चित्त- मासनं निर्वर्त्तयतीति” विव० ।



Correction: