वाचस्पत्यम्
प्रयाग || पु० प्रकृष्टो यागो यागफलं यस्य यस्मात् वा । गङ्गा- यसुनयोः सङ्गमजाते १ तीर्थभेदे २ शतक्रतौ इन्द्रे च । ३ अश्वे अश्वमेघाङ्गस्याश्वस्य यज्ञसाधनत्वात् तथात्वम् । कर्म० । ४ प्रकृष्टे यज्ञे अमरः । तत्र तीर्थभेदे पुं न० पुराणे तथा प्रयोगात् । मन्माहात्म्यञ्च मत्स्यपु० १०२ अध्यायादिके १०७ अध्यायान्ते उक्तम् एवमन्यान्यपुराणेऽप्यु क्तम् । ततो दिग्मात्रं पुराणसमुच्चये दर्शितमत्र प्रदर्श्यते । “एतत् प्रजापतेः क्षेत्रं त्रिषु लोकेषु विश्रुतम् । न शक्यं कथितुं राजन्! फलं वर्षशतैरपि । संक्षेपेण तु वक्ष्या- मि तस्य तीर्थस्य यत् फलम् । षष्टिर्वीरसहस्राणि तत्र रक्षन्ति जाह्नवीम् । यमुनां रक्षति सदा सविता सप्त- वाहनः । तं वटं रक्षति शिवः शूलपाणिर्महेश्वरः । स्थानं रक्षन्ति वै देवाः सर्वपापहरं शुभम् । प्रयागं स्मरमाणस्य यान्ति पापानि संक्षयम् । दर्शनात्तस्य तीर्थस्य सर्वपापैः प्रमुच्यते । मृत्तिकालभनाद्वापि नरः पापात् प्रमुच्यते । पञ्च कुण्डानि राजेन्द्र! येषां मध्ये तु जाह्नवी । प्रयागस्य पवेशाद्वै पापं नश्यति तत्- क्षणात् । मनसा चिन्तितान् कामान् सर्वान् प्राप्नोति पुष्कलान् । ततो गत्वा प्रयागन्तु सर्वदेवाभिरक्षितम् । ब्रह्मचारी शुचिर्भूत्वा पितॄन् देवांश्च तर्पयेत् । तपनस्य सुता देवीं त्रिषु लोकेषु विश्रुता । समागता महा- भाग! यमुना यत्र निर्मला । तत्रोपस्पृश्य राजेन्द्र! स्वर्गलौकमुपाश्नुते । व्याधितो यदि वा हीनः क्रुद्धो वापि भवेन्नरः । गङ्गायमुनमासाद्य यस्तु प्राणान् परि- त्यजेत् । दीप्तकाञ्चनसङ्काशैर्विमानैः सूर्य्यवर्चसैः । नन्धर्वाप्सरसां मध्ये स्वर्गे तिष्ठति मानवः” । “देशस्थो यदि वाऽरण्ये विदेशे यदि वा गृहे । प्रयागं अरमाणोऽपि यस्तु प्राणान परित्यजेत् । ब्रह्मलोक- मषाप्तोति वदन्ति मुनिपुङ्गवाः । सर्वकामफला वृक्षा नहावेदिर्हिरण्मयी । स्त्रीमहस्राकले रम्णे मन्दाकि- प्यान्तदे शुभे । मोदते ऋपिभिः सार्द्धं म्वर्गे तेनेह कर्मणाः । सिद्धचारणगन्धर्वैः पूज्यते दिवि नैवतैः । तताः स्वर्गात् परिभ्रष्टो जम्बुद्वीगपतिर्भवेत् । ततः पूभानि कर्माणि चिन्तयानः पुनःपुनः । गुणावान् वित्त- सम्पन्नो भवतीह न संशयः । स्वर्णशृङ्गीं रूप्यखुरां चेलकण्ठीं पयस्विनीम् । प्रयागे श्रोत्रियं साधुं ग्राह- यित्वा यथाविधि । स्वर्गे च ततफलं भुङ्क्ते प्रदाता पञ्चकोटिषु । पुत्रान् दारांस्तघ्ना भृत्यान् गौरेका प्रति- तारयेत् । ऐश्वर्य्यलोभमोहाद्वा गच्छेद्यानेन यो नरः । निष्फलं तस्य तत्तीर्थं तस्माद्यानन्तु वर्जयेत् । तत्र दानं प्रदातव्यं यथाविभवसम्भवम् । तेन तीर्थफल- श्चैव वर्द्धते नात्र संशयः । स्वर्गे तिष्ठति राजेन्द्र! याव- दाहूतसंप्लवम् । वटमूलं समासाद्य यस्तु प्राणान् परित्यजेत् । सर्वलोकानतिक्रम्य रुद्रलोकं स गच्छति । तत्र ते द्वादशादित्यास्तपन्ते रुद्रमाश्रिताः । निदहन्ति जगत्सर्वं वटमूलं न दह्यते । नष्टचन्द्रार्कपवनं यदा चैकार्णव जगत् । स्वपते तत्र वै विष्णुर्यतमानः पुनः- पुनः । देवदानवगन्धवा ऋषयः सिद्धचारणाः । यदा सेवन्ति तत्तीर्थं गङ्गायनुनसङ्गमम् । ततः पुण्यतमं नास्ति त्रिषु लोकेषु भारत! । श्रवणात्तस्य तीर्थस्य नामसङ्कीर्त्तनादपि । मृत्तिकालभनाद्वापि नरः पापात् प्रमुच्यते । तुल्यं फलमवाप्नोति राजसूयाश्वमेधयोः । न देववचनात्तात न लोकवचनादपि । मतिरुत्क्रमणीया ते मयागमरणं प्रति । दश तीर्थसहस्राणि षष्ठिःकोट्यस्तथा पराः । तेषां सान्निध्यमत्रैव माघे वै कुरुनन्दन! । या गतिर्योगयुक्तस्य सत्यस्थस्य च धीमतः । सा गतिस्त्य- जतः प्राणान् गङ्गायमुनसङ्गमे । कम्बलाश्वतरौ नागौ विपुले यमुनातटे । तत्र स्नात्वा च पीत्वा च सर्वपापैः प्रमुच्यते । तत्र गत्वा च संस्थानं महादेवस्य धीमतः । नरस्तारयते पूर्वान् पुरुषानेकविंशतिम् । कृत्वाभिषेकन्तु नरो ह्यश्वमेधफलं लभेत् । स्वर्गलोकमवाप्नोति याव- दाहूतसंप्लवम् । पूर्वपार्श्वे च गङ्गायास्त्रिषु लोकेषु विश्रुतम् । कूपश्चैव तु साहस्रं प्रतिष्ठानञ्च नामतः । तत्र स्नात्वा विशुद्धात्मा अश्वमेधफलं लभेत् । उत्तरेण प्रतिष्ठानाद्भागीरथ्यास्तु पूर्वतः । हंसप्रपतनं नाम तीर्थं त्रैलोक्यविश्रुतम् । अश्वमेधमवाप्नोति स्नान- मत्रेण भारत! । यावच्चन्द्रश्च सूर्य्यश्च तावत्स्वर्गे महीयते । उर्वशीपुलिने रम्ये विपुले हंसपाण्डरे । परित्यजति यः प्राणान् शृणु तस्यापि यत् फलम् । पष्टि वर्षसहस्राणि षष्टिं वर्षशतानि च । मोदते पितृभिः सार्द्धं स्वर्गलोके नरीत्तमः । ततः स्वर्गात् परिभ्रष्टः क्षीणकर्मा दिवश्च्युतः । उर्वशीसद्वशीनान्त कन्यानां दिव्यतेजसाम् । मध्ये नारीसहस्राणां वहू- नाञ्च पतिर्भवेत् । दशग्रामसहस्राणां भर्त्ता भवति भूमिपः । काञ्चीनूपुरशब्देन सुप्तोऽसौ प्रतिवुध्यते । अथ सन्ध्यावटे रम्ये ब्रह्मचारी जितेन्द्रियः । उपासीत- शुचिः सन्ध्यां ब्रह्मलोकमवाप्नुयात् । कोटितीर्थं समा- साद्य यस्तु प्राणान् परित्यजेत् । कोटिवर्षसहस्राणि स्वर्गलोके महीयते । ततः स्वर्गात् परिभ्रष्टः क्षीणकर्मा- दिवश्च्युतः । सुवर्णमणिमुक्ताढ्ये कुले जायेत रूपवान् । ततो भागीरथीं गत्वा वासुकेरुत्तरेण तु । दशाश्व- मेधिकं नाम तत्र तीर्थं परं भवेत् । कृत्वाभिषेकन्तु नरो ह्यश्वमेधं फलं लभेत् । धनाढ्यो रूपवान् दक्षो दाता भवति धार्मिकः । चतुर्वेदिषु यत् पुण्यं सत्य- वादिषु यत्फलम् । अर्हिसायाञ्च यो धर्मो गमनादेव तत् फलम् । तथैव मानसं नाम गङ्गाया दक्षिणे तटे । त्रिरात्रमुषितः स्नात्वा सर्वान् कामानवाप्नुयात् । पृथिव्या आसमुद्राया महाभानः पतिर्भवेत् । षष्टिस्तीर्थसह- स्राणि षष्टिस्तीर्थशतानि च । माघे मासि गमिव्यन्ति गङ्गायमुनसङ्गमम् । गवां शतसहस्रस्य सम्यग्दत्तस्य यत् फलम् । प्रयागे माथमासे वै त्र्यहं स्नातस्य तत् फलम् । गङ्गायमुनयोर्मध्ये योऽग्नौ स्वाङ्गं परि- त्यजेत् । अहीनाङ्गोऽप्यरोगश्च पञ्चेन्द्रियसमन्वितः । यावन्ति रोमकूपाणि तस्याङ्गेषु च धीमतः । तावद्धर्ष- सहस्राणि स्वर्गलोके महीयते । जलप्रवेशंयः कुर्य्यात् सङ्गमे लोकविश्रुते । राहुमुक्तो यथा सोमो विमुक्तः सर्वपातकैः । सीमलोकमर्वाप्नोति सोमेन सह मोदते । षष्टिं वर्षसहस्राणि षष्टिं वर्षशताथि च । स्वर्गलोक- मवाप्नोति ऋषिगन्धर्वसेवितः । परिभ्रष्टश्च राजेन्द्र! स- मृद्धे जायते कुले । अधःशिरास्तु यो ज्वालामूर्द्धपादः पिबेन्नरः । शतं वर्षसहस्राणां स्वर्गलोके महीयते । परिभ्रष्टश्च राजेन्द्र! अग्निहोत्री भवेन्नरः । यस्तु ख- देहं कर्त्तित्वा शकुनिभ्यः प्रयच्छति । विहगैरुपभुक्तस्य शृणु तस्यापि यत फलम् । शतं वर्षसहस्राणि सोम- लोके महीयते । तस्मादपि परिभ्रष्टो राजा भवति धार्मिकः । यामुने चोत्तरे कूले प्रयागस्य च दक्षिणे । ऋणमोचनकं नाम तत्तीर्थं परमं स्मृतम् । एकरात्रो- षितः स्नात्वा ऋणैः सर्वैर्विसुच्यते । अश्वमेधफलं तस्माद्ग- च्छतस्तु पदे पदे । पुरुषांस्तारयेद्राजन्! दश पूर्वान् दशा- परान् । व्यतीतान् पुरुषान् सप्त भविष्यांश्च चतुर्दश । नरस्तारयते सर्बान् यस्त् प्राणान् परित्यजेत् । अश्रद्ध धानाः पुरुषा पापापहृतचेतसः । न प्राप्नुवन्ति तत् स्थानं प्रयागं देवरक्षितम् । अज्ञानेन तु यस्येह तीर्थ- यात्रादिकं भवेत् । मर्बकामसमृद्धन्तु स्वर्गलोके मही- यते । अग्नितीर्थमतिख्यातं यमुनादक्षिणे तटे । उत्त- रेण तु वक्ष्यामि आदित्यस्य महात्मनः । तीर्थं निरु- र्दकं नाम यत्र देवाः सवासवाः । उपासते सदा सन्ध्यां नित्यकालं युधिष्ठिर! । गङ्गा च यमुना चैव उभे तुल्य- फले स्मृते । केबलं ज्येष्ठभावेन गङ्गा सर्वत्र पूज्यते । नैमिषं पुष्करञ्चैव गोमती सिन्थुसागरम् । गया च धेनुकञ्चैव गङ्गासागरएव च । एते चान्ये च वहवो ये च पुण्याः शिलोच्चयाः । दश कोटिसहस्राणि षष्टि- कोट्यस्तथा पराः । प्रयागे संस्थिता नित्यमेवमाहु- र्मनीषिणः । कुरुक्षत्रसमा गङ्गाः यत्र तत्रावगाहिता । तस्माद्दशगुणा प्रोक्ता यत्र विन्ध्येन सङ्गता । तस्माच्छत- गुणा प्रोक्ता काश्यामुत्तरवाहिनी । काश्याः शतगुणा प्रोक्ता गङ्गायमुनसङ्गमे । सहस्नगुणिता चापि भवेत् पश्चिमवाहिनी । सा राजन्! दर्शनादेव ब्रह्महत्याप- हारिणी । पश्चिमाभिमुखी गङ्गा कालिन्द्या सह सङ्गता । हन्ति कल्पकृतं पापं सा माघे नृप! दुर्लभा । अमृतं कथ्यते राजन्! सा वेणी परिकीर्त्तिता । तस्यां माघे मुहूर्त्तन्तु देवानामपि दुर्लभम् । षष्टिस्तीर्थसहस्राणि षष्टिस्तीर्थशतानि च । माघे मासि गमिष्यन्ति गङ्गायमुन- सङ्गमम् । ब्रह्मविष्णुमहादेवरुद्रादित्यमरुद्गणाः । गन्धर्वा लोकपालाश्च यक्षकिन्नरगुह्यकाः । अणिमादिगुणैः सिद्धा ये चान्ये तत्त्वदर्शिनः । ब्रह्माणी पार्वती लक्ष्मीः शची मेधावती रतिः । सर्वास्ता देवपत्न्यश्च तथा नागाङ्गना नृप । घृताची मेनका रम्भा उर्वशी च तिलोत्तमा । गणाश्चाप्मरसां तद्वत् पितॄणाञ्च गणाश्च ये । स्नातुमा- घन्ति ते सर्वे माघे वेण्यां नराधिप! । कृते युगे स्वरू- पेण कलौ प्रच्छन्नरूपिणः । सर्वतीर्थानि कृष्णानि पापिनां सङ्गदोषतः । भवन्ति शुक्लवर्णानि प्रयागे माधमज्जनात् । स्वर्णभारसहस्रेण कुरुक्षेत्रे रविग्रहे । यत् फलं लभते माथे वेण्यां तच्च दिने दिने । यज्ञतीर्थतपोमिश्च न तत् प्राप्नाति मानवः । यत् फलं समवाप्नोति वेण्यां स्नानान्न संशयः । प्रयागे माधमासे तु यस्त्र्यहं स्नाति मानवः । पापं त्यक्त्वा दिवं याति जीर्णां त्वचमिवो- रगः । प्रयागे माघमासे तु त्र्यहं स्नातस्य द्भवेत् । नाश्वमेधसहस्रेण तत् फलं लभते भुवि । त्र्यहस्नान- फलं माघे पुरा काञ्चनमालिने । राक्षसाय ददौ भूप! तेन मुक्तः स पातकात् । योगाभ्यासेन यत् पुण्यं संवत्सर शतेन च । गवां कोटिप्रदानस्य सम्यग्दत्तस्य यत् फलम् । प्रयागे माघमासे तु त्र्यह स्नातस्य तत् फलम् । किं गयापिण्डदानेन काश्यां वा मरणेन किम् । किं कु- रुक्षेत्रदानेन प्रयागे वपनं यदि । प्रयागे वपनं कृर्य्यात् गयायां पिण्डपातनम् । दानं दद्यात् कुरुक्षेत्रे वारा- णस्यां तनुं त्यजेत् । सितासितेषु ये स्नान्ति माघे मासि युधिष्ठिर! । न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि । स्वल्पं स्वल्पतरं पापं यद्वा यस्य नराधिष! । प्रयागं स्म- रमाणस्य सर्वमायाति संक्षयम् । दर्शनात्तस्य तीर्थस्य नामसंकीर्त्तनादपि । मृत्तिकालभनाद्वापि नरः पापात् प्रमुच्यते । पयागस्य प्रवेशात्तु पापं नश्यति तत्क्षणात् । कीर्त्तनान्मुच्यते पापाद्दृष्ट्या भद्राणि पश्यति । अवगाह्य च पीत्वा च पुनात्यासप्तमं कुलम् । गङ्गायमुनयोर्मध्ये स्वातो मुच्येत किल्विषात् । मनसा चिन्तितान् कामां- स्तांस्तान् प्राप्नोति पुष्कलान् । प्रयागन्तु ततो गत्वा सर्व- देवाभिरक्षितम् । ब्रह्मचारी भवेन्मासं पितॄन् देवांश्च तर्प- येत् । ईप्सितान् लभते काभान् यत्र कुत्रापि जायते । तत्राभिवेकं यः कुर्य्यात् सङ्गमे संशितव्रतः । स प्राप्नोति फलं तुल्यं राजसूयाश्वमेधयोः । पञ्चयोजनविस्तीर्णं प्र- यागस्य च मण्डलम् । प्रवेशाद्यस्य भूमौ तु अश्वमेधः पदे पदे । प्रयागमनुगच्छेद्वा बसते वापि यो नरः । सर्व- पापविशुद्धात्मा विष्णुलोके महीयते । मकरस्थे रवौ माघे गोविन्दाच्युत! माधव! । स्नानेनानेन मे देव! यथोक्त फलदो भव । तत्र दानं प्रदातव्यं यथाविभवविस्तरम् । तेन तीर्थफलञ्चैव वर्द्धते नात्र संशयः । स्वर्गे तिष्ठति रा- जेन्द्र! यावदाहूतसंप्लवम् । योजनानां सहस्रेषु गङ्गां यः स्मरते नरः । अपि दुष्कृतकर्माऽपि लभते परमां नतिम् । स्नातास्तु ये माकारभास्करोदये तीर्थे प्रयागे सुरसिन्धुसङ्गमे । तेषां गृहद्वारमलङ्करोति भृङ्गाबली कुञ्जरकर्णताडिता” मत्स्यपु० । तत्र मुण्डनविधिर्यथा “गङ्गायां भास्करक्षेत्रे मातापि- त्रोर्गुरौ मृते । आधाने सोमपाने च वपनं सप्तस स्मृ- तम्” इति स्तृतिसमुच्चयतिलितवचनं प्रयागावच्छिन्नग- ङ्गाया विधायकम् । भास्करक्षेत्रं प्रयागः अपि च प्रयागमधिकृत्य “केसानां यावती सङ्ख्या छिन्नानां जा- ह्नवीजले । तावद्वर्षसहस्राणि स्वर्गलोके महीयते” । प्रयागे स्त्रीणामपि मुण्डन न तु केशानां द्व्यङ्गलच्छेदन मात्रं यथा “केशमूलमुपाश्रित्य सर्वपापानि देहिनाम् । तिष्ठन्ति तीर्थस्नानेन तणात्तान्यत्र वापयेत् । प्रयागे मु- ण्डनाकरणे दोषोऽपि “गङ्गायां मास्करक्षेत्रे मुण्डनं यो न कारयेत् । स काटिकुलसंयुक्त आतल्यं रौरवे वसेत्” इति प्रा० त० ।
शब्दकल्पद्रुमः
प्रयागः || पुं, (प्रकृष्टो यागो यत्र । यत्र यज्ञः प्रकर्षेण भवतीत्यर्थः ।)
तीर्थभेदः । (प्रकृष्टो यागः ।)
यज्ञः । (प्रकृष्टा यागाः यज्ञा यस्य यस्माद्बा ।)
इन्द्रः । अश्वः । इति मेदिनी । गे, ४१ ॥ * ॥
अथ प्रयागमाहात्म्यम् । “ततो गच्छेत धर्म्मज्ञ ! प्रयागमृषिसम्मतम् । यत्र ब्रह्मादयो देवा दिशश्च सदिगीश्वराः ॥ लोकपालाश्च सिद्धाश्च निरताः पितरस्तथा । सनत्कुमारप्रमुखास्तथैव च महर्षयः ॥ तथा नागाः सुपर्णाश्च सिद्धाश्च क्रतवस्तथा । गन्धर्व्वाप्सरसश्चैव सरितः सागरास्तथा ॥ हरिश्च भगवानास्ते प्रजापतिभिरावृतः । तत्र त्रीण्यग्निकुण्डानि तयोर्मध्ये तु जाह्रवी ॥ प्रयागात् समतिक्रान्ता सर्व्वतीर्थपुरस्कृता । तपनस्य सुता तत्र त्रिषु लोकेषु विश्रुता ॥ यमुना गङ्गया सार्द्धं सङ्गता लोकभाविनी । गङ्गायमुनयोर्म्मध्ये पृथिव्या जघनं स्मृतम् ॥ प्रयागं जघनस्यान्तमुपस्थमृषयो विदुः । प्रयागं सप्रतिष्ठानं कम्बलाश्वतराबुभौ ॥ तीर्थं भोगवती चैव वेदी प्रोक्ता प्रजापतेः ! । तत्र वेदाश्च यज्ञाश्च मूर्त्तिमन्तो महामते ! प्रजापतिमुपासन्ते ऋषयश्च महाव्रताः । यजन्ते क्रतुभिर्द्देवास्तथा चक्रधराः सदा ॥ ततः पुण्यतमं नास्ति त्रिषु लोकेषु सूतज ! । प्रयागं सर्व्वतीर्थेभ्यः प्रवदन्त्यधिकं द्विजाः ॥ श्रवणात् तस्य तीर्थस्य नामसङ्कीर्त्तनादपि । मृत्तिकालभनाद्वापि सर्व्वपापैः प्रमुच्यते ॥ तत्राभिषेकं यः कुर्य्यात् सङ्गमे संशितव्रतः । पुण्यं स महदाप्नोति राजसूयाश्वमेधयोः ॥ एषा यजनभूमिर्हि देवानामपि सतकृता । दत्तं तत्र स्वल्पमपि महद्भवति सूतज ! ॥ न वेदवचनात्तात ! न लोकवचनादपि । मतिरुत्क्रमणं याति प्रयागमरणं प्रति ॥ दशतीर्थसहस्राणि षष्टिकोट्यस्तथापराः । तेषां सान्निध्यमत्रैव कीर्त्तितं सूतनन्दन ! ॥ यत् पुण्यं त्रिषु लोकेषु वेदविद्यासु यत् फलम् । स्नातमात्रस्य तत् पुण्यं गङ्गायमुनसङ्गमे ॥” इति पाद्मे भूमिखण्डे १२७ अध्यायः ॥ * ॥
अपि च । “पुत्त्रकामः प्रयागे हि स्रायात् पुण्ये सितासिते ॥ धनकामः पुरा शक्रः स्नातो ह्यत्र द्बिजोत्तम ! ॥ धनदस्य निधीन् सर्व्वान् तस्माज्जहार मायया । नारायणो नरेणैव वर्षाणामयुतं पुरा ॥ अनाहारः प्रयागेऽस्मिन् कृतवान् पुण्यमुत्तमम् । सिद्धिञ्च साधका यान्ति प्रयागेऽस्मिन् द्विजो- त्तम ! ॥” इति पाद्मोत्तरखण्डे २३ अध्यायः ॥ * ॥
अपि त्त । युधिष्ठिर उवाच । “भगवन् ! श्रोतुमिच्छामि प्रयागगमनं फलम् । मृतानां का गतिस्तत्र स्नातानामपि किं फलम् ॥ ये वसन्ति प्रयागे तु ब्रूहि तेषान्तु किं फलम् । भवता विदितं ह्येतत् तन्मे ब्रूहि नमोऽस्तु ते ॥ मार्कण्डेय उवाच । कथयिष्यामि ते वत्स ! या चेष्टा यच्च तत् फलम् । पृष्ट्वा महर्षिभिः सम्यक् कथ्यमानं मया श्रुतम् ॥ यत्र स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः । यत्र ब्रह्मादयो देवा रक्षां कुर्व्वन्ति सङ्गताः ॥ बहून्यन्यानि तीर्थानि सर्व्वपापहराणि च । कथितुं नेह शक्नोमि बहुवर्षशतैरपि ॥ संक्षेपेण प्रवक्ष्यामि प्रयागस्येह कीर्त्तनम् । षष्टिर्धन्विसहस्राणि यक्षा रक्षन्ति जाह्नवीम् ॥ यमुनां रक्षति सदा सविता सप्तिवाहनः । प्रयागन्तु विशेषेण स्वयं रक्षति वासवः ॥ मण्डलं रक्षति हरिः सर्व्वदेवैश्च सम्मितम् । न्यग्रोधं रक्षते नित्यं शूलपाणिर्महेश्वरः ॥ स्थानं रक्षन्ति वै देवाः सर्व्वे पापहरं शुभम् । स्वकर्म्मणावृता लोका नैव गच्छन्ति तत्पदम् ॥ स्वल्पमल्पतरं पापं यदा तस्य नराधिप ! । प्रयागं स्मरमाणस्य सर्व्वमायाति संक्षयम् ॥ दर्शनात्तस्य तीर्थस्य नामसंकीर्त्तनादपि । मृत्तिकालभनाद्वापि नरः पापात् प्रमुच्यते ॥ पञ्चकुण्डानि राजेन्द्र ! येषां मध्ये तु जाह्नवी । प्रयागं विशतः पुंसः पापं नश्यति तत्क्षणात् ॥ योजनानां सहस्रेषु गङ्गां यः स्मरते नरः । अपि दुष्कृतकर्म्मासौ लभते परमां गतिम् ॥ कीर्त्तनाम्मुच्यते पापात् दृष्ट्वा भद्राणि पश्यति ॥ व्याधितो यदि वा हीनः क्रुद्धो वापि भवेन्नरः । गङ्गायमुनमासाद्य त्यजेत् प्राणान् प्रयत्नतः ॥ दीप्तकाञ्चनवर्णाभैर्विमानैर्भानुवर्णिभिः । ईप्सितान् लभते कामान् वदन्ति मुनिपुङ्गवाः ॥ सर्व्वरत्नमयैर्द्दिव्यैर्नानाध्वजसमाकुलैः । वराङ्गनासमाकीर्णैर्मोदन्ते शुभलक्षणैः ॥ गीतवादित्रनिर्घोषैः प्रसुप्तः प्रतिबुध्यते । यावन्न स्मरते जन्म तावत् स्वर्गे महीयते ॥ तस्मात् स्वर्गात् परिभ्रष्टः क्षीणकर्म्मा नरोत्तमः । हिरण्यरत्नसंपूर्णे समृद्धे जायते कुले ॥ तदेव स्मरते तीर्थं स्मरणात्तत्र गच्छति । देशस्थो यदि वारण्ये विदेशे यदि वा गृहे ॥ प्रयागं स्मरमाणस्तु यस्तु प्राणान् परित्यजेत् । ब्रह्मलोकमवाप्नोति वदन्ति मुनिपुङ्गवाः ॥ सर्व्वकामफला वृक्षा मही यत्र हिरण्मयी । ऋषयो मुनयः सिद्धास्तत्र लोके स गच्छति ॥ स्त्रीसहस्राकुले रम्ये मन्दाकिन्यास्तटे शुभे । मोदते मुनिभिः सार्द्धं स्वकृतेनेह कर्म्मणा ॥ सिद्धचारणगन्धर्व्वैः पूज्यते दिवि दैवतैः । अथ स्वर्गात् परिभ्रष्टो जम्बुद्वीपपतिर्भवेत् ॥ अतः शुभानि कर्म्माणि चिन्त्यमानः पुनः पुनः । गुणवान् वित्तसम्पन्नो भवतीह न संशयः ॥ कर्म्मणा मनसा वाचा सत्यधर्म्मप्रतिष्ठितः ॥ गङ्गायमुनयोर्मध्ये यस्तु ग्रामं प्रयच्छति । सुवर्णमणिमुक्तां वा तथैवान्यत् प्रतिग्रहम् ॥ स्वकार्य्ये पितृकार्य्ये वा देवताभ्यर्च्चनेऽपि वा । निष्फलं तस्य तत्तीर्थं यावत् तद्धनमश्नुते ॥ अतस्तीर्थे न गृह्णीयात् पुण्येष्वायतनेषु च ॥ कपिलां पाटलाभान्तु यस्तु घेनुं प्रयच्छति । यावद्रोमाणि तस्या वै सन्ति गात्रेषु सत्तम ! । तावद्वर्षसहस्राणि रुद्रलोके महीयते ॥” इति कौर्म्मे प्रयागमाहात्म्ये ३३ अध्यायः ॥ * ॥
तत्र मुण्डनविधिर्यथा, —
“गङ्गायां भास्करक्षेत्रे मातापित्रोर्गुरौ मृते । आधाने सोमपाने च वपनं सप्तसु स्मृतम् ॥” इति स्मृतिसमुच्चयलिखितवचनं प्रयागावच्छिन्न- गङ्गायां विधायकम् । भास्करक्षेत्रं प्रयागः । अपि च । प्रयागमधिकृत्य । “केशानां यावती संख्या छिन्नानां जाह्रवीजले । तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥” प्रयागे स्त्रीणामपि मुण्डनं न तु केशानां द्व्यङ्गुल- च्छेदनमात्रम् । यथा, —
“केशमूलमुपाश्रित्य सर्व्वपापानि देहिनाम् । तिष्ठन्ति तीर्थस्नानेन तस्मात्तान्यत्र वापयेत् ॥” प्रयागे मुण्डनाकरणे दोषोऽपि । “गङ्गायां भास्करक्षेत्रे मुण्डनं यो न कारयेत् । स कोटिकुलसंयुक्त आकल्पं रौरवे वसेत् ॥” इति प्रायश्चित्ततत्त्वम् ॥