वाचस्पत्यम्
प्रयाज || पु० प्र + यज—धञ् यज्ञाङ्गत्वात् न कुत्वम् । दर्शपौर्णमा- साद्यङ्गे यागभेदे । प्रयाजाश्च पञ्च “समिघो यजति तनू- नपातं यजति इडा यजति वर्हिर्यजति खाहाकारं यजतीत्येवं रूपाः श्रुत्युक्ताः । “पञ्च प्रयाजान्” कात्या० श्रौ० ३ । २ । १ । १७ । आपस्तम्बोऽपि “पञ्च प्रयाजान् प्राचः प्रतिदिशं वा, समिधः पुरस्तात्, तनूनपातं दक्षिणतः, इडः पश्चात्, बर्हिरुत्तरतः, खाहाकारं मध्ये” ततकर्मस्थान- साह । कर्मभेदे तेषां मध्ये कस्यविदावृत्त्या षट्सप्तनवै- कादशसंख्याऽपि कात्या० श्नौ० उक्ता दृश्या । विस्तरभयात् नोक्ता । प्रयाजादयश्चारादुपकारका यथोक्तं लौकाक्षि० “द्रव्याद्यनुद्दिश्य केवलं विधीयमानं कर्म त्वारादुपकारकम् यथा पृयाजादि । आरादुपकारकञ्च परमापूर्वोत्पत्तावेवो पयुज्यते । सन्निपत्योपकारकन्तु द्रव्यदेवतासंस्कारद्वारा यागस्वरूपेऽप्युपयुज्यते । इदमेव चाश्रयिकर्मेत्युच्यत” ।