वाचस्पत्यम्
प्रयाण || न० पृ + या—भावे ल्युट् । प्रस्थाने पुरादितो वहि- र्गसने हेमच० । राज्ञां प्रयाणे वर्णनीयपदार्थाः कविकल्प लतायामुक्ता यथा “भेरीशब्दः भूमिकम्पः सैन्यधूलिप्रस- रणं करभः वृषः (द्रव्यवाहनार्थं) ध्वजः छत्रं वणिक् शकटमित्यादयः । स्वार्थे क । तत्रार्थे हमच० ।
शब्दकल्पद्रुमः
प्रयाणं || क्ली (प्र + या + ल्युट् । णत्वम् ।)
गमनम् । इति हलायुघः । २ । २९७ ॥ यथा, —
“उद्धाटितनवद्वारे पञ्जरे विहगोऽनिलः । यत्तिष्ठति तदाश्चर्य्यं प्रयाणे विस्मयः कुतः ॥” इत्युद्भटः ॥ तत्पर्य्यायः । प्रस्थानम् २ गमनम् ३ व्रज्या ४ अभिनिर्याणम् ५ प्रयाणकम् ६ । इति हेम- चन्द्रः । ३ । ४५३ ॥ अत्र राज्ञां युद्धादिप्रयाणे वर्णनीयानि यथा । भेरीनिस्वनः १ भूकम्पः २ बलधूलिः ३ करभः ४ वृषः ५ ध्वजः ६ छत्रम् ७ बणिक् ८ शकटम् ९ रथः १० । इति कवि- कल्पलता ॥