संस्कृत-शब्दकोशः

प्रयुक्त प्रयुत

प्रयुक्ति

वाचस्पत्यम्

प्रयुक्ति ||‍ स्त्री प्र + युज—भावे क्तिन् । १ प्रयोगे २ शब्दोच्चारणभेदे “ऋद्धस्य राजमातङ्गा इति न स्युः प्रयुक्तयः” व्या० कारिका ३ प्रेरणे प्रा० स० । ४ प्रकृष्टायां युक्तौ च ।


शब्दकल्पद्रुमः

प्रयुक्तिः || स्त्री प्रयोजनम् । प्रपूर्ब्बयुजघातोर्भावे क्तिः (क्तिन्)
। यथा, —
“तरुण्यो वृषली भार्य्या प्रवीरं पुत्त्रकान्यति । ऋद्धस्य राजमातङ्गा इति न स्युः प्रयुक्तयः ॥” इति प्राञ्चः ॥ (प्रयोगः । यथा, ऋग्वेदे । १ । १५१ । ८ । “युवां यज्ञैः प्रथमा गोभिरञ्जत ऋतावाना मनसो न प्रयुक्तिषु ॥” “प्रयुक्तिषु प्रयोगेषु ।” इति तद्भाष्ये सायनः ॥)



Correction: