वाचस्पत्यम्
प्रयोगिन् || त्रि० प्र + युज—थिनुण् । प्रयोगकर्त्तरि ।
शब्दकल्पद्रुमः
प्रयोगी || [न्] त्रि, (प्रयोगोऽस्त्यस्येति । प्रयोग + “अत इनिठनौ ।” ५ । २ । ११५ । इति इनिः ।)
प्रयोगयुक्तः । (यथा, अमरे । २ । ७ । २० । “समूह्यः परिचाय्योपचाय्यावग्नौ प्रयोगिणः ॥”)