वाचस्पत्यम्
प्रयोजन || न० प्रयुज्यतेऽनेन प्र + युज—करणे ल्युट् । यमधि- कृत्य प्रवर्त्तते १ तस्मिन् प्रवृत्त्यङ्गेच्छाविषये यमर्थमाप्तव्यं हातव्यं वा अवसाय तदाप्तिप्रहाणोपायमनुतिष्ठति प्रयोजनं तद्वेदितव्यम् । प्रवृत्तिहेतुत्वाद् इममर्थमाप्स्या- मि हास्यामि वेति व्यवसायोऽर्थस्याधिकारः । एवं व्यव- सीयमानोऽर्थोऽधिक्रियते इति” वात्स्या० १ । १ । २४ । करणे ल्युट् । २ हेतौ । कर्मणि ल्युट् । ३ कार्य्ये च मेदि० । प्रयोजनञ्च द्विविधं सुख्यं गौणं च । अत्र अन्येच्छान- धीनेच्छाविषयत्वं मुख्यप्रयोजनत्वम् अन्येच्छाधीनेच्छा- विषयत्वं गौणप्रयोजनत्वम् । तत्राद्यम् दुःखा- भावः सुखञ्च द्वितीयं तदुपकारिशयनभोजनादि । तस्य मुख्यप्रयोजनेच्छयैव जन्याया इच्छायाविषयत्वात् तथात्वम् । “येन प्रयुक्तः प्रवर्त्तते तत्प्रयोजनम् । यमर्थमभीप्सन् जिहासन वा कर्मारभते तेनानेन सर्वे प्राणिनः सर्वाणि कर्माणि सर्वाश्च विद्याव्याप्ताः । तदा- श्रयश्च न्यायः प्रवर्त्तते” वात्स्या० १ । १ । १
शब्दकल्पद्रुमः
प्रयोजनं || क्ली (प्रयुज्यते इति । प्र + युज् + ल्युट् ।)
कार्य्यम् । (प्रयुज्यतेऽनेनेति । प्र + युज् + करणे ल्युट् ।)
हेतुः । इति मेदिनी । ने, १९३ ॥ यथा, “सर्व्वस्यैव हि शास्त्रस्य कर्म्मणो वापि कस्यचित् । यावत् प्रयोजनं नोक्तं तावत् केन प्रगृह्यते ॥ सिद्धार्थं सिद्धसम्बन्धं श्रोतुं श्रोता प्रवर्त्तते । ग्रन्थादौ तेन वक्तव्यः सम्बन्धः सप्रयोजनः ॥” इति प्राञ्चः ॥ (“प्रयोजनञ्च द्विविधं मुख्यं गौणञ्च । तत्र अन्ये च्छानधीनेच्छाविषयत्वं मुख्यप्रयोजनत्वम् । अन्येच्छाधीनेच्छाविषयत्वं गौणप्रयोजनत्वम् । तत्राद्यं सुखं तद्भोगो दुःखाभावश्च द्बितीयं तदुपकारि शयनभोजनादि । तस्य मुख्यप्रयो- जनेच्छयैव जन्याया इच्छाया विषयत्वात्तथा- त्वम् ।” इति मुक्तिवादे गदाधरः ॥ उद्देशः । यथा, “अथ प्रयोजनम् । प्रयोजनं नाम यदर्थमारभ्यन्त आरम्भाः । यथा यद्यकालमृत्युरस्ति ततोऽह- मात्मानमायुष्यैरुपचरिष्याम्यनायुष्यैः परिहरि- ष्यामि कथं न मामकालमृत्युः प्रसहेतेति !” इति चरके विमानस्थानेऽष्टमेऽध्याये ॥)