संस्कृत-शब्दकोशः

प्रयोजन प्ररथ

प्रयोज्य

वाचस्पत्यम्

प्रयोज्य ||‍ त्रि० प्र + युज—ण्यत् । प्रयोक्तुंशक्ये १ भृत्यादौ २ मूल धने न० “प्रयोज्यस्यास्तु कर्तृत्वं गत्यादेर्विधितोचिता” हर्यक्ते ३ णिजन्तधातुप्रकृत्यर्थकर्त्तरि च । तस्य भावः त्व प्रयोज्यत्व स्वरूपसम्बन्धभेदे न० प्रयुक्तशब्दे दृश्यम् ।


शब्दकल्पद्रुमः

प्रयोज्यः || त्रि (प्र + युज् + ण्यत् । “प्रयोज्य- नियोज्यौ शक्यार्थे ।” ७ । ३ । ६८ । इति निपा- तनात् साधुः ।)
प्रयोक्तुं शक्यः । इति मुग्ध- बोधव्याकरणम् ॥ (यथा, मनुः । ३ । १५९ । “वाक् चैव मधुरा श्लक्ष्णा प्रयोज्या धर्म्म- मिच्छता ॥”)
मूलधने, क्ली ॥



Correction: