वाचस्पत्यम्
प्रलय || पु० प्रलीथतेऽस्मिन् प्र + ली—आधारे अच् । भूतादि लयाधारे कालभेदे स च चतुर्विधः नित्यनैमित्तिकप्राकृ- तात्यन्तिकभेदात् यथोक्तं कूर्मपु० ४२ । ४३ अ० कूर्म उवाच नित्यं नैमित्तिकञ्चैव प्राकृतात्यन्तिकौ तथा । चतुर्धायं पुराणेऽस्मिन् प्राच्यते प्रतिसञ्चरः” । नित्यो यथा “योऽयं संदृश्यते नूनं नित्यं लोके क्षयन्त्विह । नित्यं संकीर्त्त्यते नाम्ना मुनिभिः प्रतिसञ्चरः” नेमि- त्तिको यथा “ब्राह्यो नैमित्तिको नाम कल्पान्त यो- भविष्यति । त्रैलोक्यस्यास्य कथितः प्रतिसर्गो मनीः षिभिः” प्राकृतो यथा “महदाद्यं विशषान्तं यदा सं- याति संक्षयम् । प्राकृतः प्रतिसर्गोऽयं प्रोच्यते कालचि न्तकैः” आत्यन्तिका यथा “ज्ञानादात्यन्तिका षोक्तो यो गिनः परमात्मनि । प्रलयः प्रतिसर्गोऽय कालचिन्त परैर्द्विजैः । आत्यन्तिकश्च कथितः प्रल्लवा कयसाधनः” नैमित्तिकप्रलयविस्तारो यथा तत्रैव “नैमित्तिकनिदानीं कीर्तयिष्ये समासतः । चतुर्युगसहस्रान्त” संप्राप्ते प्रतिसञ्चरे । आत्मसस्थाः प्रजाः कर्तुं प्रतिपेदे प्रजा- पतिः । ततोभवत्यनावृष्टिस्तीव्रा सा शतवार्षिकी । भूत- क्षयकरी घारा मवभूतभयङ्करी । ततो यान्यल्पसाराणि शस्यानि पृथिवीतले । तानि चाग्रे प्रलीयन्ते भूमित्व- सुपयान्ति च । सप्तरश्मिरथो भूत्वा समुत्तिष्ठन् दिवा- करः । असह्यरश्मिर्भवति पिबन्नम्भोगभस्तिभिः । ततस्तं रश्मयः सप्त पिबन्त्यम्बु महार्णवे । तेनाहारेण ते सूर्य्या दीप्ताः सप्त भवन्ति हि । तस्य ते रश्मयः सप्त सूर्य्या भूत्वा चतुर्दिशम् । चतुर्लोकमिदं कृत्स्नं दहन्ति शिखिनो यथा । व्याप्नुवन्तश्च ते विप्रास्तू- र्ध्वञ्चाधश्च रश्मिभिः । दीप्यन्ते भास्कराः सप्त दह- न्तोऽग्निप्रतापिमः । ते सूर्य्या वह्निवत् दीप्ता बहु- सांहह्ररश्मयः । स्वं समावृत्य तिष्ठन्ति निर्दहन्तो वसु- न्धराम् । ततस्तेषां प्रतापेन दह्यमाना वसुन्धरा । साद्रिनद्यर्णवद्वीपा निःस्नेहा समपद्यम । दीप्ताभिः सन्तताभिश्च ज्वालाभिश्च समावृतः । अधश्चोर्द्धञ्च तिर्य्यक् च समावृत्य सहस्रशः । सूर्य्यग्निना प्रसृष्टानां संसृ- ष्टानां परस्परम् । एकत्वसुपजातानामेकज्वालो भवेत् प्रभुः । सर्वलोकप्रणाशश्च सोऽग्निर्भूतान्तकृद्बली । चतुर्लोकमिदं कृत्स्नं निर्दहत्यात्मतेजसा । ततः प्रलीने सर्वस्मिन् जङ्गमे स्थावरे तथा । निर्वृक्षा निस्तृणा भूमिः कूर्मपृष्ठे प्रकाशते । अम्बरीपमिवाभाति सर्वमापूरितं जगत् । सर्वमेव तदार्चिर्भिः पूर्णं जाज्वल्यते नभः । पाताले यानि तीर्थानि महोदधिगतानि तु । तत्र नानि प्रलीयन्ते भूमित्वमुपयान्ति वै । द्वीपांश्च पर्वतां- श्चैव वर्षाण्यथ महोदधीन् । तान् सर्वान् भस्मसात्- कृत्वा सप्तात्मा पावकः प्रभुः । समुद्रेभ्यो नदीभ्यश्च पातालेभ्यश्च सर्वशः । पिवन्नपः समिद्धोऽग्निः पृथिवी- माश्रितोऽज्वलत् । ततः संवर्त्तकः शैलानतिक्रम्य महां स्तथा । सोकान् दहति दीप्तात्मा रुद्रतेजोविजृम्भितः । स दग्ध्या पृथिवीं देवो रसातलमशोषयत् । अधस्तात् पृथिवीं दग्ध्वा दिवमूर्द्धं दहिष्यति । योजनानां शता- नीह सहस्राण्ययुतानि च । उत्तिष्ठन्ति शिखास्तस्य बायुः संवर्त्तकस्य च । गन्धर्वांश्च पिशाचांश्च सयक्षो- रगराक्षसान् । तदा दहत्यसौ दीप्तः कालरुद्रप्रचोदितः । भूर्लोकञ्च १ भूवर्लोकं २ स्वर्लोकञ्च ३ तथा महः ४ । दहेद- शेषं कासाग्विः कालो विश्वतनुः स्वयम् । व्युष्टषु तेषु लोकेषु तिर्य्यगूर्ध्वमथाग्निना । तत् तेजः समनुप्राप्य कृत्स्वं जगदिदं शनैः । अयोगृहनिभं सर्वं तदे- वैकं प्रकाशते । ततो गजकुलोन्नादाः स्तनितैः समख- ङ्कृताः । उत्तिष्ठन्ति तदा व्योम्नि घोराः संवर्त्तका घनाः । केचिन्नीलोत्पलश्यामाः केचित् कुमुदसन्निभाः । धूम्र- वर्णास्तथा केचित्तथा पीताः पयीधराः । केचिद्रक्ता- भवर्णाश्च स्थूलाः क्षारनिभास्तथा । शङ्खकुन्दनिभा- श्चान्ये जात्यञ्जननिमाः परे । मनःशिलानिभास्त्वन्ये कपोतसदृशाः परे । केचित् रुद्राक्षवर्णाभास्तथान्ये क्षीरसन्निभाः । तथा कर्वूरवर्णाभा भिन्नाञ्जननिभा- स्तथा । इन्द्रगोपनिभाः केचिद्धरितालनिभास्तथा । काकाण्डकनिभाः केचिदुत्तिष्टन्ति घना दिवि । केचित् पर्वतसङ्काशाः केचिद्गजकुलोपमाः । कूटागारनिभा- श्चान्ये केचिन्मीनकुलोद्वहाः । बहुरूपा घोररूपा घोर- स्ररनिनादिनः । तदा जलधराः सर्वे पूरयन्ति नभ- स्तलम् । ततस्ते जलदा घोरा वारिणा भास्करात्मजाः । सप्तधा संवृतात्मानस्तमग्निं शमयन्त्युत । ततस्ते जल- दा वर्षं वर्षन्तीह हिमौघवत् । सुघोरमशिवं सर्यं नाश- यन्ति च पावकम् । प्रवृत्तेन तदात्यर्थमम्भसा पूर्य्यते किल । अद्भिस्तेजोऽभिभूतत्वात्तदाग्निः प्रविशत्यपः । नष्टे चाग्नौ वर्षशतैः पयोदा जलसम्भवाः । प्लावयन्तो ऽथ भुवनं महाजलपरिस्रवैः । घाराभिः पूरयन्तीदं चोद्यमानाः स्वयम्भुवा । उद्यन्तः सलिलौथैश्च वेला इव महोदधेः । साद्रिद्वीपा तथा पृथ्वी जलैः संछाद्यते शनैः । आदित्यरश्मिभिः पीतं जलमभ्रेषु तिष्ठति पुनः पतति तद्भूमौ पूर्य्यन्ते तेन चार्णवाः । तनः ससुद्राः स्वां वेलामतिक्रान्तास्तु कृत्स्नशः । पर्वताश्च विलीयन्ते मही चाप्सु निमज्जति । तस्विन्नेकार्णवे घोरे नष्टे स्थावरजङ्गमे । योगनिद्रां समास्थाय शे देवः प्रजापतिः । चतुर्युगसहस्रान्तं कल्पमाहुर्महर्षयः । वाराहो वर्त्तते कल्पो यस्य विस्तार ईरितः । असं- ख्यातास्तथा कल्पा ब्रह्मविष्णुशिवात्मकाः । कथिता हि पुराणेषु मुनिभिः कालचिन्तकैः । सात्त्विकेष्यथ- कल्पेषु माहात्म्यमखिलं हरेः । तामसेषु शिवस्योक्तं राजसेषु प्रजापतेः । सोऽयं प्रवर्त्तते कल्पो वाराहः सात्त्विको मतः । अन्ये च सात्त्विकाः कल्पा मम तेषु परिग्रहः । ध्यानन्तपस्तथा ज्ञानं लब्ध्वा तेष्वेव यो- गिनः । आराध्य गिरिशं यत्नात् याति तत् परमं पदम । सोऽहं सत्त्वं समाधाय मायी मायामयं स्वयम् । एकार्णवे जगत्यस्मिन् योगनिद्रां व्रजामि तु । मां पश्यन्ति महात्मानः सुप्तं काले महर्षयः । जनलोके वर्त्तमाना- स्तपसा योगचक्षुषा । अहं पुराणपुरुषो भूर्भुवःप्रभवो विदुः । सहस्रचरणः श्रीमान् सहस्राक्षः सहस्रपात् । मन्त्रोऽग्निर्ब्राह्मणा गावः कुशाश्च समिधो ह्यहम् । प्रोक्षणी च स्रुवश्चैव सोमो घृतभयोऽस्यहम् । संवर्तको महानात्मा पवित्रं परमं यशः । वेदवेद्यः प्रभुर्गोप्ता गोपतिर्ब्रह्मणोमुखम् । अनन्तस्तारको योगी गति- र्मतिमतांवरः । हंसः प्राणोऽथ कपिलो विश्वमूर्त्तिः सनातनः । क्षेत्रज्ञः प्रकृतिः कालो जगद्वीजमथामृतम् । माता पिता महादेवो मत्तो ह्यन्यन्न विद्यते । आदित्य- वर्णो भुवनस्य गोप्ता नारायणः पुरुषो योगमूर्त्तिः । मां पश्यन्तो यतयो योगनिष्ठा ज्ञात्वात्मानममृतत्वं व्र जन्ति” । प्राकृतप्रलयविस्तारो यथा तत्रैव “कूर्म उवाच अतःपरं प्रवक्ष्यामि प्रतिसर्गमनुत्तमम् । प्राकृतं च समा- सेन शृणुध्वं गदतो मम । गते परार्द्धद्वितये काले लोक- प्रकालकः । कालाग्निर्भस्मसात् कर्तुं करोति निखिलं मतिम् । आत्मन्यात्मानमावेश्य भूत्वा देवो महेश्वरः । दहेदशेषं ब्रह्माण्डं सदेवासुरमानुषम् । तमाविश्य महादेवो भगवान्नीललोहितः । करोति लोकसंहारं भीषणं लोकमाश्रितः । प्राविश्य मण्डलं सौरं कृत्वा- ऽसौ बहुधा पुनः । निर्दहत्यस्विलं लोकं सप्तसप्तिस्वरूप धृक् । स दग्ध्वा सकलं सत्त्वं मन्त्रं ब्रह्म शिरो महत् । देवतानां शरीरेषु क्षिपत्यखिलदाहकः । दग्धेष्वशेष- देहेषु देवी गिरिवरात्मजा । एका सा साक्षिणः शम्भो स्तिष्ठते वैदिकी श्रुतिः । शिरःकपालैर्देवानां कृत तग्धरभूषणः । आदित्यचन्द्रादिगणैः पूरयन् व्योम- मण्डलम् । सहस्रहस्तचरणः सहस्रार्चर्महाभुजः । दष्ट्राकरालवदनः प्रदीप्तानललोचनः । त्रिशृली कृत्ति- वसनो योगमैश्वरमास्थितः । पीत्वा तत् परमानन्दं प्रभूतममृतं स्वकम् । करोति ताण्डवं देवीमालोक्य परमेश्वरः । पीत्वा नृत्यामृतं देवी भर्तुः परममङ्गला । योगमास्थाय देवस्य देहमायाति शूलिनः । स त्यक्त्वा ताण्डवरसं स्येच्छयैव पिनाकधृक् । याति स्वभावं भग- वान् दग्ध्वा ब्रह्माण्डमण्डलम् । संस्थितेष्वथ देवेषु ब्रह्मविष्णुपिनाकिषु । गुणैरनेकैः पृथिवी विलयं याति वारिषु । स बारितत्त्वं सगुणं ग्रसते हव्यपाहनः । तैजसं गुणसंयुक्तं वायौ संयाति संक्षयम् । आकाशे सगुणो वायुः प्रलयं याति सत्तमाः! । भूतादौ च तथा- ऽऽकाशं लीयते गुणसंयुतम् । इन्द्रियाणि च सर्वाणि तैजसे यान्ति संक्षयम् । वैकारिके देवगणाः प्रलयं यान्ति सत्तमाः! । वैकारिकस्तैजसश्च भूतादिश्चेति सत्तमाः! । त्रिविधोऽयमहङ्कारो महति प्रलयं व्रजेत् । महान्तमेभिः सहितं ब्रह्माणममितौजसम् । अव्यक्तं जगतो योनिः संहरेदेकमव्ययम् । एवं संहृत्य भूतानि तत्त्वानि च महेश्वरः । नियोजयत्यथान्योन्यं प्रधानं पुरुषं परम् । प्रधानपुंसोरजयोरेष सहार ईरितः । महेश्वरेच्छाजनितो न खयं विद्यते लयः । गुणसाम्यं तदव्यक्तं प्रकृतिः परिगीयते । प्रधानं जगतो योनि- र्नावातत्त्वगचेतनम् । कूटस्थश्चिन्मयो ह्यात्मा केबलः पञ्चविंशतः । गीयते मुनिभिः साक्षी महानेकः पिता- महः । एवं संहारकरणी शक्तिर्माहेश्वरी ध्रुवा । प्रधानाद्यं विशेषान्तं दहेद्रुद्र इति श्रुतिः । योगिना- मथ सर्वेषां ज्ञानविन्यस्तचेतसाम् । आत्यन्तिकञ्चैव लयं विदधातीह शङ्करः” । आत्यन्तिकप्रलयविस्तारो यथा विष्णु पु० पराशर उवाच “आध्यात्मिकादि मैत्रेय ज्ञात्वा तापत्रयं बुधः । उत्पन्नज्ञानवैराग्यः प्राप्नोत्यात्यन्तिकं लयम् । आध्यात्मिको वै द्विविधः शारीरो मानसस्तथा । शारीरो बहुभिर्भेदैर्भिद्यते श्रूयताञ्च सः । शिरोरोग- प्रतिश्यायज्वरशूलभगन्दरैः । गुल्मार्शःश्वयथुश्वासच्छर्द्या- दिभिरनेकधा । तथाक्षिरोगातीसारकुष्ठाङ्गामयसंज्ञकैः । भिद्यते देहजस्तापो मानसं श्रोतुमर्हसि । कामक्रोध- भयद्वेषलोभमोहविषादजः । शोकासूयाबमानेर्ष्यामात्- सर्य्यादिभवस्तथा । मानसोऽपि द्विजश्रेष्ठ! तापो भवति नैकधा । इत्येवमादिभिर्भेदैस्ताणो ह्याध्यात्मिकः स्मृतः । मृगपक्षिमनुष्याद्यैः पिशाचोरमराक्षसैः । सरीसृपा- द्यैश्च नृणां जन्यते चाधिभौतिकः । शीतोष्णवातवर्षाम्बु वैद्युतादिसमुद्भवः । तापो द्विजवरश्रेष्ठ! कथ्यते चाधि- दैविकः । तदस्य त्रिविधस्यापि दुःखजातस्य पण्डितैः । गर्भजन्मजराद्येषु स्थानेषु प्रभविष्यतः । निरस्ताति- शयाह्लादसुखभावैकलक्षणा । भेषजं भगवत्प्राप्तिरेका- न्तात्यन्तिकी मता । तस्मात् तत्प्राप्तये यत्नः कर्त्तव्यः पण्डितैर्नरैः । तत्प्राप्तिहेतुर्ज्ञानञ्च कर्म चोक्तं नहा- मुने! । आगमीत्थं विवेकाच्च द्विधा ज्ञानं तथोत्यते । शब्दव्रह्मागममयं परं ब्रह्म विवेकभ्रम् । अन्यन्तम इवा- ज्ञानं दीपवच्चेन्द्रियोद्भवम् । यथा सूर्यस्तथा ज्ञानं यद्- विप्रर्षे! विवेकजम् । मनुरप्याह वेदार्थं स्मृत्वा यन्मुनि- कत्तस! । तदेतच्छ्रूयतामत्र साधु ते गदतो मम । द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परञ्च यत् । शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति । द्वे विद्ये वेदितव्ये वै इति चाथर्वणी श्रुतिः । परया त्वक्षरप्राप्तिरृग्वेदादि- भवाऽपरा । यत्तदव्यक्तमजरमचिन्त्यमजमव्ययम् । अनिर्देश्यमरूपञ्च पाणिपादाद्यसंयुतम् । विभुं सर्व- गतं नित्यं भूतयोनिभकारणम् । व्याप्यऽवाप्यं यतः सर्वं तं वै पश्यन्ति सूरयः । तद्ब्रह्म तत्परं धाम तद्ध्येयं मोक्षकाङ्क्षिणाम् । श्रुतिवाक्योदितं सूक्ष्मं तद्विज्ञोः परमं पदम् । तदेव भगवद्वाच्यं स्वरूपं परमात्मनः । वाचको भगवच्छब्दस्तस्याद्यस्याक्षरात्मनः । शवं मिगदितार्थस्य सतत्त्वं तस्य तत्त्वतः । ज्ञायते येन तज्ज्ञानं परमत्यत्तयीमयम् । अशब्दगोचरस्यापि तस्यैव ब्रह्मणो द्विज! । पूजायां भगवच्छब्दः क्रियते हौपचारिकः । शुद्धे महाविभूत्याख्ये परे ब्रह्मणि वर्त्तते । मैत्रेय! भगवच्छब्दः सर्वकारणकारणे । सर्वाणि तत्र भूतावि वसन्ति परमात्मनि । भूतेषु च स सर्वात्मा वासुदेवस्ततः स्मृतः । स्वाण्डिक्यः जनकायाह पृष्टः केशिध्वजः पुरा । नामव्याख्यामनन्तस्य वासुदेवस्य तत्त्वतः । भूतेषु वसते सोऽन्तर्वसन्त्यत्र च तानि यत् । धाता विधाता जगतां वासुदेवस्ततः प्रभुः । स सर्व- भूतप्रकृतिर्विकारगुणांश्च दाषांश्च मुने! व्यतीतः । अतीतसर्वावरणाखिलात्मातेनास्तृतं यद्भुवनान्तरालम् । समस्तकल्याणगुणात्मको हि स्वशक्तिलेशावृतभूतसर्गः । इच्छागृहीताभिमतोरुदेहः संसाधिताशेषजगद्धितोऽसौ । तेजोवलैश्वर्य्यसमन्वितश्च स्ववीर्य्यशक्त्यादिगुणैकराशिः । परः षराणां सकला न यत्र क्लेशादयः सन्ति पराव- रेत्ते । स ईत्तरो व्यष्टिसमष्टिरूपो व्यक्तस्वरूपः प्रकट- त्त्ररूपः । सर्वेश्वरः सर्वदृक् सर्ववेत्ता समस्तशक्तिः परमे- श्वराख्यः । स ज्ञायते येन तदस्तदीषं शुद्धं परं निर्मल- मेकरूपम् । संदृश्यते चाप्यवगम्यते वा तज्ज्ञानम- ज्ञानमतोऽन्यदुक्तम्” विष्णु पु० । “नारद उवाच । कृतं त्रेता द्वापरञ्च कलिश्चेति चतुर्युगम् । दिनमेकं युग ज्ञयं तस्य या चैकसप्ततिः । मन्वन्तरन्तु तज्ज्ञेयं ते तु गत्र चतुर्दश । स कल्पो नाम वै कांलस्तदन्ते प्रसुयस्य वः । सा ब्रह्म्रात्री राजेन्द्र! यत्र तेतेऽव्यु- जासनः । त्रयोलोकास्तदा राजन्! लीयन्ते तन्निमि- त्ततः । नैमित्तिको लयो नाम दैनन्दिन इतीर्य्यते । एवं दिनप्रमाणेन ब्रह्मणः शतवार्षिकम । आयुः पूर्वपरार्द्धे तु परार्द्धे द्वे प्रकीर्त्तिते । द्विपरार्द्धे व्यतीते तु व्रह्मणो जगदात्मनः । तदा प्रकृतयः सप्त प्रलयं यान्ति भूमिप! लयः प्राकृतिको ह्येष लीने ब्रह्मणि भूपते! । अण्डकोषोऽपि सकलः प्रलयं याति सर्वशः । पूर्वरू- पन्तु वक्ष्यामि प्रलयस्यास्य भूपते! । शतवर्षाणि भूमौ हि पर्जन्यो नैव वर्षति । दुर्भिक्षे निर्जले लोके प्रजाः सर्वाः क्षुधार्दिताः । परस्परं भक्ष्यमाणाः क्षयं यास्यन्ति भूमिप! । समुद्रे च धरण्याञ्च वृक्षेषु च सतासु च । देहे च यो रसस्तं हि रविर्हरति रश्मिभिः । ततः संवर्त्तको नाम ज्वालामाली हुताशनः । सङ्कर्ष- णमुखोत्पन्नो दहत्यऽनिलसारथिः । सर्वं ब्रह्माण्ड- भाण्डं वैतत्कालक्षोभगर्जितः । एवं दग्धं महाराज । वह्न्यर्काभ्यां समन्ततः । दग्ध्वा गोमयपिण्डाभं ब्र- ह्माण्डं सारवर्जितम् । प्रचण्डः पवगी राजंस्ततोवर्ष- शतं पुनः । संवर्त्तको नाम महान् ब्रह्माण्डं चाल- यिष्यति । ततो मेषा महाघारा नानावर्णा अने- कशः । शतं वर्षाणि वर्षन्ति गर्जन्ति च महास्वनाः । एकोदकं ततो विश्वं निर्गुणं निर्विकारकम् । भूमेर्गन्घ- गुणं राजन्! ग्रसन्त्यापः समन्ततः । गुणनाशात् स्वयं पृथ्वी प्रलयं प्रापस्यते तदा । तेजस्त्वपां रसगुणं सगन्धं पिवते बलात् । ततः प्रलयमायान्ति राजन्नापोऽपि तत्क्षणात् । तेजसस्तु ततो रूपं रसगन्धसमन्वितम् । वायुर्हरति चण्डात्मा, तेजः प्रलयमृच्छति । आकाशस्तु ततो वायेः स्पर्शं परगुणैः सह । समादत्ते महा- राज! अम्बरेऽथ प्रलीयते । आकाशस्य गुणं शब्दं गणैरन्यैः समन्वितम् । अहङ्कारः समादत्ते नभस्तस्मिन् प्रलीयते । तैजसेष्विन्द्रियाण्यङ्ग देवा वैकारिका स्तथा । अहङ्कारे प्रलीयन्ते जगदेतच्चराचरम् । अह- ङ्कारं भक्षयन्ति ततः सत्त्वादयो गुणाः । ग्रसते तान् महाराज! आद्या प्रकृतिरुच्यते । न तस्याः काल- दोषेण परिणामो नरर्षभ! । आद्यन्तरहिता सा हि नित्यं कारणमव्ययम् । शक्तिर्भगवतः सा हि तदेक- परमा च सा । इत्युक्तः प्रलयो राजन्! विश्वस्यास्य महामते! । यथोत्पत्तिक्रमेणास्य व्युत्क्रमेण लयस्तथा” स च प्रलयो न्यायादिमते द्विविधः खण्डप्रलयो महा- प्रलयश्च तत्र जन्यद्रव्यानधिकरणकाणत्वं खण्डप्रलयत्वं जन्यभावानधिकरणकालत्वं महाप्रलयत्वं महाप्रलयश्च न प्रमाणसिद्ध इति नष्वनैयाविकाः । तत्र नैमित्तिकप्रल- यकालश्च कल्पतुल्यः “यदा स देवो जागर्त्ति तदेदं चेष्टते जगत् । यदा स्वपिति शान्तात्मा तदा सर्वं प्रलीयते” इति मनुना हिरण्यगर्भस्य निदासमये तत्प्रलयस्योक्तेः “शर्वरी तस्य तारती” इति तत्कासस्य च कल्पतुल्यकालत्वमुक्तम् । एतदभिप्रायेण अमरे “प्रलयो नष्टचेष्टता” इत्युक्तम् नैमित्तिकप्रलयकाले सर्वभूतानां चेष्ठाशून्यत्वात् । “प्रलयः सुखदुःखाभ्यां चेष्टाज्ञाननिराकृतिः” सा० द० उक्ते २ सा- त्त्विकभावभेदे ।
शब्दकल्पद्रुमः
प्रलयः || पुं, (प्रलीयते क्षीयते जगदस्मिन्निति । प्र + ली + “एरच् ।” ३ । ३ । ५६ । इत्यच् ।)
प्रक्षयः । तत्पर्य्यायः । संवर्त्तः २ कल्पः ३ क्षयः ४ कल्पान्तः ५ । इत्यमरः । १ । ४ । २२ ॥ लयः ६ संक्षयः ७ विलयः ८ । इति शब्दरत्ना- वली ॥ प्रतिसर्गः ९ प्रतिसञ्चरः १० । स च नित्यनैमित्तिकप्राकृतात्यन्तिकभेदेन चतुर्धा । यथा, — कूर्म्म उवाच । “नित्यं नैमित्तिकञ्चैव प्राकृतात्यन्तिकौ तथा । चतुर्धायं पुराणेऽस्मिन् प्रोच्यते प्रतिसञ्चरः ॥” * नित्यो यथा, —
“योऽयं संदृश्यते नूनं नित्यं लोके क्षयन्त्विह । नित्यं संकीर्त्त्यते नाम्ना मुनिभिः प्रतिसञ्चरः ॥” नैमित्तिको यथा, —
“ब्राह्मो नैमित्तिको नाम कल्पान्ते यो भवि- ष्यति । त्रैलोक्यस्यास्य कथितः प्रतिसर्गो मनीषिभिः ॥” प्राकृतो यथा, —
“महदाद्यं विशेषान्तं यदा संयाति संक्षयम् । प्राकृतः प्रतिसर्गोऽयं प्रोच्यते कालचिन्तकैः ॥” आत्यन्तिको यथा, —
“ज्ञानादात्यन्तिकः प्रोक्तो योगिनः परमात्मनि । प्रलयः प्रतिसर्गोऽयं कालचिन्तापरैर्द्विजैः ॥ आत्यन्तिकश्च कथितः प्रलयो लयसाधनः ॥” * ॥
नैमित्तिकप्रलयविस्तारो यथा, —
“नैमित्तिकमिदानीं वः कीर्त्तयिष्ये समासतः ॥ चतुर्युगसहस्रान्ते संप्राप्ते प्रतिसञ्चरे । आत्मसंस्थाः प्रजाः कर्त्तुं प्रतिपेदे प्रजापतिः ॥ ततो भवत्यनावृष्टिस्तीव्रा सा शतवार्षिकी । भूतक्षयकरी घोरा सर्व्वभूतभयङ्करी ॥ ततो यान्यल्पसाराणि शस्यानि पृथिवीतले । तानि चाग्रे प्रलीयन्ते भूमित्वमुपयान्ति च ॥ सप्तरश्मिरथो भूत्वा समुत्तिष्ठन् दिवाकरः । असह्यरश्मिर्भवति पिबन्नम्भो गभस्तिभिः ॥ ततस्ते रश्मयः सप्त पिबन्त्यम्बु महार्णवे । तेनाहारेण ते सूर्य्या दीप्ताः सप्त भवन्ति हि ॥ तस्य ते रश्मयः सप्त सूर्य्या भूत्वा चतुर्द्दिशम् । चतुर्लोकमिदं कृत्स्रं दहन्ति शिखिनो यथा ॥ व्याप्नुवन्तश्च ते विप्रास्तूर्द्धञ्चाधश्च रश्मिभिः । दीप्यन्ते भास्कराः सप्त दहन्तोऽग्निप्रतापिनः ॥ ते सूर्य्या वारिणा दीप्तो बहुसाहस्ररश्मयः । खं समावृत्य तिष्ठन्ति निर्द्दहन्तो वसुन्धराम् ॥ ततस्तेषां प्रतापेन दह्यमाना वसुन्धरा । साद्रिनद्यर्णवद्वीपा निःस्नेहा समपद्यत ॥ दीप्ताभिः सन्तताभिश्च ज्वालाभिश्च समावृतः । अघश्चोर्द्धञ्च तिर्य्यक् च समावृत्य सहस्रशः ॥ सूर्य्याग्निना प्रसृष्टानां संहृष्टानां परस्परम् । एकत्वमुपजातानामेकज्वालो भवेत् प्रभुः ॥ सर्व्वलोकप्रणाशश्च सोऽग्निर्भूत्वात्मकुण्डली । चतुर्लोकमिदं कृत्स्नं निर्द्दहत्यात्मतेजसा ॥ ततः प्रलीने सर्व्वस्मिन् जङ्गमे स्थावरे तथा । निर्वृक्षा निस्तृणा भूमिः कूर्म्मपृष्ठे प्रकाशते ॥ अम्बरीशमिवाभाति सर्व्वमापूरितं जगत् । सर्व्वमेव तदार्च्चिर्भिः पूर्णं जाज्वल्यते नभः ॥ पाताले यानि तीर्थानि महोदधिगतानि तु । तत्र तानि प्रलीयन्ते भूमित्वमुपयान्ति वै ॥ द्बीपांश्च पर्व्वतांश्चैव वर्षाण्यथ महोदधीन् । तान् सर्व्वान् भस्मसात् कृत्वा सप्तात्मा पावकः प्रभुः ॥ समुद्रेभ्यो नदीभ्यश्च पातालेभ्यश्च सर्व्वशः । पिबन्नपः समिद्धोऽग्निः पृथिवीमाश्रितोऽज्वलत् ॥ ततः सम्बर्त्तकः शैलानतिक्रम्य महांस्तथा । लोकान् दहति दीप्तात्मा रुद्रतेजोविजृम्भितः ॥ स दग्ध्वा पृथिवीन्देवो रसातलमशोषयत् । अधस्तात् पृथिवीं दग्ध्वा दिवमूर्द्धं दहिष्यति ॥ योजनानां शतानीह सहस्राण्ययुतानि च । उत्तिष्ठन्ति शिखास्तस्य वायुः सम्बकर्त्तस्य च ॥ गन्धर्व्वांश्च पिशाचांश्च सयक्षोरगराक्षसान् । तदा दहत्यसौ दीप्तः कालरुद्रप्रचोदितः ॥ भूर्लोकञ्च भुवर्लोकं स्वर्लोकञ्च तथा महः । दहेदशेषं कालाग्निः कालो विश्वतनुः स्वयम् ॥ व्युष्टेषु तेषु लोकेषु तिर्य्यगूर्द्धमथाग्निना । तत्तेजः समनुप्राप्य कृत्स्नं जगदिदं शनैः ॥ आयोगृहनिभं सर्व्वं तदेवैकं प्रकाशते । ततो गजकुलोन्नादाः स्तनितैः समलङ्कृताः ॥ उत्तिष्ठन्ति तदा व्योम्नि घोराः संवर्त्तका घनाः । केचिन्नीलोत्पलश्यामाः केचित् कुमुदसन्निभाः ॥ धूम्रवर्णास्तथा केचित् तथा पीताः पयोधराः । केचिद्रक्ताभ्रवर्णाश्च स्थूलाः क्षारनिभास्तथा ॥ शङ्खकुन्दनिभाश्चान्ये जात्यञ्जननिभाः परे । मनःशिलानिभास्त्वन्ये कपोतसदृशाः परे ॥ केचिद्रुद्राक्षवर्णाभास्तथान्ये क्षीरसन्निभाः । तथा कर्व्वूरवर्णाभा भिन्नाञ्जननिभास्तथा ॥ इन्द्रगोपनिभाः केचिद्धरितालनिभास्तथा । काकाण्डकनिभाः केचिदुत्तिष्ठन्ति घना दिवि ॥ केचित् पर्व्वतसङ्काशाः केचिद्गजकुलोपमाः । कूटागारनिभाश्चान्ये केचिन्मीनकुलोद्बहाः ॥ बहुरूपा घोररूपा घोरस्वरनिनादिनः । तदा जलधराः सर्व्वे पूरयन्ति नभस्तलम् ॥ ततस्ते जलदा घोरा वारिणा भास्करात्मजाः । सप्तघा संवृतात्मानस्तमग्निं शमयन्त्युत ॥ ततस्ते जलदा वर्षं वर्षन्तीह हिमौघवत् । सुघोरमशिवं सर्व्वं नाशयन्ति च पावकम् ॥ प्रवृत्तेन तदात्यर्थमम्भसा पूर्य्यते किल । अद्भिस्तेजोऽभिभूतत्वात्तदाग्निः प्रविशत्यपः ॥ नष्टे चाग्नौ वर्षशतैः पयोदा जलसम्भवाः । प्लावयन्तोऽथ भुवनं महाजलपरिस्रवैः ॥ धाराभिः पूरयन्तीदं चोद्यमानाः स्वयम्भुवा । उद्यन्तः सलिलौघैश्च वेला इव महोदधे ॥ साद्रिद्वीपा तथा पृथ्वी जलैः संछाद्यते शनैः ॥ आदित्यरश्मिभिः पीतं जलमभ्रेषु तिष्ठति । पुनः पतति तद्भूमौ पूर्य्यन्ते तेन चार्णवाः ॥ ततः समुद्राः स्वां वेलामतिक्रान्तास्तु कृत्स्नशः । पर्व्वताश्च विलीयन्ते मही चाप्सु निमज्जति ॥ तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजङ्गमे । योगनिद्रां समास्थाय शेते देवः प्रजापतिः ॥ चतुर्युगसहस्रान्तं कल्पमाहुर्महर्षयः । वराहो वर्त्तते कल्पो यस्य विस्तार ईरितः ॥ असंख्यातास्तथा कल्पा ब्रह्मविष्णुशिवात्मकाः । कथिता हि पुराणेषु मुनिभिः कालचिन्तकैः ॥ सात्विकेष्वथ कल्पेषु माहात्म्यमखिलं हरेः । तामसेषु शिवस्योक्तं राजसेषु प्रजापतेः । सोऽयं प्रवर्त्तते कल्पो वाराहः सात्विको मतः । अन्ये च सात्विकाः कल्पा मम तेषु परिग्रहः । ध्यानन्तपस्तथा ज्ञानं लब्ध्वा तेष्वेव योगिनः ॥ आराध्य गिरिशं यत्नात् याति तत्परमं पदम् । सोऽहं स त्वं समाधाय मायी मायामयं स्वयम् ॥ एकार्णवे जगत्यस्मिन् योगनिद्रां व्रजानि तु । मां पश्यन्ति महात्मानः सुप्तं काले महर्षयः । जनलोके वर्त्तमानास्तपसा योगचक्षुषा । अहं पुराणपुरुषो भूर्भुवःप्रभवो विदुः ॥ सहस्रचरणः श्रीमान् सहस्राक्षः सहस्रपात् । मन्त्रोऽग्निर्ब्राह्मणा गावः कुशाश्च समिधो ह्यहम् ॥ प्रोक्षणी च स्रुवश्चैव सोमो घृतमयोऽस्म्यहम् । संवर्त्तको महानात्मा पवित्रं परमं यशः ॥ वेदवेद्यः प्रभुर्गोप्ता गोपतिर्ब्रह्मणो मुखम् । अनन्तस्तारको योगी गतिर्मतिमतां वरः ॥ हंसः प्राणोऽथ कपिलो विश्वमूर्त्तिः सनातनः । क्षेत्रज्ञः प्रकृतिः कालो जगद्बीजमथामृतम् ॥ माता पिता महादेवो मत्तो ह्यन्यन्न विद्यते ॥ आदित्यवर्णो भुवनस्य गोप्ता नारायणः पूरुषो योगमूर्त्तिः । मां पश्यन्ति यतयो योगनिष्ठा ज्ञात्वात्मानममृतत्वं व्रजन्ति ॥” * ॥
प्राकृतप्रलयविस्तारो यथा, — कूर्म्म उवाच । “अतःपरं प्रवक्ष्यामि प्रतिसर्गमनुत्तमम् । प्राकृतं प्रसमासेन शृणुध्वं गदतो मम ॥ गते परार्द्धद्वितये काले लोकप्रकालकः । कालाग्निर्भस्मसात् कर्त्तुं करोति निखिलं मतिम् ॥ आत्मन्यात्मानमावेश्य भूत्वा देवो महेश्वरः । दहेदशेषं ब्रह्माण्डं सदेवासुरमानुषम् ॥ तमाविश्य महादेवो भगवान्नीललोहितः । करोति लोकसंहारं भीषणं लोकमाश्रितः ॥ प्रविश्य मण्डलं सौरं कृत्वासौ बहुधा पुनः । निर्द्दहत्यखिलं लोकं सप्तसप्तिस्वरूपधृक् ॥ स दग्ध्वा सकलं सत्त्वं मन्त्रं ब्रह्मशिरो महत् । देवतानां शरीरेषु क्षिपत्यखिलदाहकः ॥ दग्धेष्वशेषदेहेषु देवी गिरिवरात्मजा । एका सा साक्षिणः शम्भोस्तिष्ठते वैदिकी श्रुतिः ॥ शिरःकपालैर्देवानां कृतस्रग्वरभूषणः । आदित्यचन्द्रादिगणैः पूरयन् व्योममण्डलम् ॥ सहस्रनयनो देवः सहस्राकृतिरीश्वरः । सहस्रहस्तचरणः सहस्रार्च्चिर्महाभुजः ॥ दंष्ट्राकरालवदनः प्रदीप्तानललोचनः । त्रिशूली कृत्तिवसनो योगमैश्वरमास्थितः ॥ पीत्वा तत् परमानन्दं प्रभूतममृतं स्वकम् । करोति ताण्डवं देवीमालोक्य परमेश्वरः ॥ पीत्वा नृत्यामृतं देवी भर्त्तुः परममङ्गला । योगमास्थाय देवस्य देहमायाति शूलिनः ॥ स त्यक्त्वा ताण्डवरसं स्वेच्छयैव पिनाकधृक् । याति स्वभावं भगवान् दग्धा ब्रह्माण्डमण्डलम् ॥ संस्थितेष्वथ देवेषु ब्रह्मविष्णुपिनाकिषु । गुणैरनेकैः पृथिवी विलयं याति वारिषु । स वारितत्त्वं सगुणं ग्रसते हव्यवाहनः ॥ तैजसं गुणसंयुक्तं वायौ संयाति संक्षयम् । आकाशे सगुणो वायुः प्रलयं याति सत्तमाः ॥ भूतादौ च तथाकाशं लीयते गुणसंयुतम् । इन्द्रियाणि च सर्व्वाणि तैजसे यान्ति संक्षयम् ॥ वैकारिके देवगणाः प्रलयं यान्ति सत्तमाः । वैकारिकस्तैजसश्च भूतादिश्चेति सत्तमाः ॥ त्रिविधोऽयमहङ्कारो महति प्रलयं व्रजेत् । महान्तमेभिः सहितं ब्रह्माणममृतौजसम् ॥ अव्यक्तं जगतो योनिः संहरेदेकमव्ययम् । एवं संहृत्य भूतानि तत्त्वानि च महेश्वरः ॥ नियोजयत्यथान्योन्यं प्रधानं पुरुषं परम् । प्रधानपुंसोरजयोरेष संहार ईरितः ॥ महेश्वरेच्छाजनितो न स्वयं विद्यते लयः । गुणसाम्यं तदव्यक्तं प्रकृतिः परिगीयते ॥ प्रधानं जगतो योनिर्मायातत्त्वमचेतनम् । कूटस्थश्चिन्मयो ह्यात्मा केवलः पञ्चविंशकः ॥ गीयते मुनिभिः साक्षी महानेकः पितामहः । एवं संहारकरणी शक्तिर्माहेश्वरी ध्रुवा ॥ प्रधानाद्यं विशेषान्तं दहेद्रुद्र इति श्रुतिः । योगिनामथ सर्व्वेषां ज्ञानविन्यस्तचेतसाम् । आत्यन्तिकञ्चैव लयं विदधातीह शङ्करः ॥” इति कौर्म्मे । ४२ । ४३ । अध्यायौ ॥ * ॥
आत्यन्तिकप्रलयविस्तारो यथा, — श्रीपराशर उवाच । “आध्यात्मिकादि मैत्रेय ! ज्ञात्वा तापत्रयं बुधः । उत्पन्नज्ञानवैराग्यः प्राप्नोत्यात्यन्तिकं लयम् ॥ आध्यात्मिको वै द्विविधः शारीरो मानसस्तथा । शारीरो बहुभिर्भेदैर्भिद्यते श्रूयताञ्च सः ॥ शिरोरोगप्रतिश्यायज्वरशूलभगन्दरैः । गुल्मार्शःश्वयथुश्वासच्छर्द्यादिभिरनेकधा ॥ तथाक्षिरोगातीसारकुष्ठाङ्गामयसंज्ञकैः । भिद्यते देहजस्तापो मानसं श्रोतुमर्हसि ॥ कामक्रोधभयद्वेषलोभमोहविषादजः । शोकासूयावमानेर्ष्यामात्सर्य्यादिभवस्तथा ॥ मानसोऽपि द्विज्रश्रेष्ठ ! तापो भवति नैकधा । इत्येवमादिभिर्भेदैस्तापो ह्याध्यात्मिकः स्मृतः ॥ मृगपक्षिमनुष्याद्यैः पिशाचोरगराक्षसैः । सरीसृपाद्यैश्च नृणां जन्यते चाधिभौतिकः ॥ शीतोष्णवातवर्षाम्बुवैद्युतादिसमुद्भवः । तापो द्विजवरश्रेष्ठ ! कथ्यते चाधिदैविकः ॥ तदस्य त्रिविधस्यापि दुःखजातस्य पण्डितैः । गर्भजन्मजराद्येषु स्थानेषु प्रभविष्यतः ॥ निरस्तातिशयाह्लादसुखभावैकलक्षणा । भेषजं भगवत्प्राप्तिरेकान्तात्यन्तिकी मता ॥ तस्मात्तत्प्राप्तये यत्नः कर्त्तव्यः पण्डितैर्नरैः । तत्प्राप्तिहेतुज्ञानञ्च कर्म्म चोक्तं महामुने ! ॥ आगमोत्थं विवेकाच्च द्विधा ज्ञानं तथोच्यते । शब्दब्रह्मागममयं परं ब्रह्म विवेकजम् ॥ अन्धन्तम इवाज्ञानं दीपवच्चेन्द्रियोद्भवम् । यथा सूर्य्यस्तथा ज्ञानं यद्विप्रषे विवेकजम् ॥ मनुरप्याह वेदार्थं स्मृत्वा यन्मुनिसत्तम ! । तदेतच्छ्रूयतामत्र सम्बन्धे गदतो मम ॥ द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परञ्च यत् । शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ द्वे विद्ये वेदितव्ये वै इति वाथर्व्वणी श्रुतिः । परया त्वक्षरप्राप्तिरृग्वेदादिमया परा ॥ यत्तदव्यक्तमजरमचिन्त्यमजमव्ययम् । अनिर्द्देश्यमरूपञ्च पाणिपादाद्यसंयुतम् ॥ विभुं सर्व्वगतं नित्यं भूतयोनिमकारणम् । व्याप्यव्याप्यं यतः सर्व्वं तं वै पश्यन्ति सूरयः ॥ तद्ब्रह्म तत् परं धाम तद्ध्येयं मोक्षकाङ्क्षि- णाम् । श्रुतिवाक्योदितं सूक्ष्मं तद्विष्णोः परमं पदम् ॥ तदेव भगवद्वाच्यं स्वरूपं परमात्मनः । वाचको भगवच्छब्दस्तस्याद्यस्याक्षरात्मनः ॥ एवं निगदितार्थस्य सतत्त्वं तस्य तत्त्वतः । ज्ञायते येन तज्ज्ञानं परमन्यत्त्रयीमयम् ॥ अशब्दगोचरस्यापि तस्यैव ब्रह्मणो द्विज ! । पूजायां भगवच्छब्दः क्रियते ह्यौपचारिकः ॥ शुद्धे महाविभूत्याख्ये परे ब्रह्मणि वर्त्तते । मैत्रेय ! भगवच्छब्दः सर्व्वकारणकारणे ॥ सर्व्वाणि तत्र भूतानि वसन्ति परमात्मनि । भूतेषु च स सर्व्वात्मा वासुदेवस्ततः स्मृतः ॥ खाण्डिक्यजनकायाह पृष्टः केशिध्वजः पुरा । नामव्याख्यायनन्तस्य वासुदेवस्य तत्त्बतः ॥ भूतेषु वसते सोऽन्तर्व्वसन्त्यत्र च तानि यत् । धाता विधाता जगतां वासुदेवस्ततः प्रभुः ॥ स सर्व्वभूतप्रकृतिर्विकार- गुणांश्च दोषांश्च मुने ! व्यतीतः । अतीतसर्व्वावरणाखिलात्मा तेनास्तृतं यद्भुवनान्तराणि ॥ समस्तकल्याणगुणात्मको हि स्वशक्तिलेशावृतभूतसर्गः । इच्छागृहीताभिमतोरुदेहः संसाधिताशेषजगद्धितोऽसौ ॥ तेजोबलैश्वर्य्यमहान्वितश्च स्ववीर्य्यशक्त्यादिगुणैकराशिः । परः पराणां सकला न यत्र क्लेशादयः सन्ति परावरेशे ॥ स ईश्वरो व्यष्टिसमष्टिरूपो- ऽव्यक्तस्वरूपः प्रकटस्वरूपः । सर्व्वेश्वरः सर्व्वदृक् सर्व्ववेत्ता समस्तशक्तिः परमेश्वराख्यः ॥ स ज्ञायते येन तदस्तदोषं शुद्धं परं निर्म्मलमेकरूपम् । संदृश्यते चाप्यवगम्यते वा तज्ज्ञानमज्ञानमतोऽन्यदुक्तम् ॥” इति विष्णुपुराणे ६ अंशे आत्यन्तिकप्रति- सञ्चारो नाम ५ अध्यायः ॥ * ॥
अपि च । नारद उवाच । “कृतं त्रेता द्बापरश्च कलिश्चेति चतुर्युगम् । दिव्यमेकयुगं ज्ञेयं तस्य या वैकसप्ततिः ॥ मन्वन्तरन्तु तज्ज्ञेयं ते तु यत्र चतुर्द्दश । स कल्पो नाम वै कालस्तदन्ते प्रलयस्तु यः ॥ सा ब्रह्मरात्री राजेन्द्र ! यत्र शेतेऽम्बुजासनः । त्रयो लोकास्तदा राजन् ! लीयन्ते तन्निमित्ततः ॥ नैमित्तिको लयो नाम दैनन्दिन इतीर्य्यते ॥ एवं दिनप्रमाणेन ब्रह्मणः शतवार्षिकम् । आयुः पूर्ब्बपरार्द्धे तु परार्द्धे द्वे प्रकीर्त्तिते ॥ द्विपरार्द्धे व्यतीते तु ब्रह्मणो जगदात्मनः । तदा प्रकृतयः सप्त प्रलयं यान्ति भूमिप ! ॥ लयः प्राकृतिको ह्येष लीने ब्रह्मणि भूपते ! । अण्डकोषेऽपि सकलः प्रलयं याति सर्व्वशः ॥ पूर्ब्बरूपन्तु वक्ष्यामि प्रलयस्यास्य भूपते ! । शतवर्षाणि भूमौ हि पर्ज्जन्यो नैव वर्षति ॥ दुर्भिक्षे निर्जने लोके प्रजाः सर्व्वाः क्षुधार्द्दिताः । परस्परं भक्ष्यमाणाः क्षयं यास्यन्ति भूमिप ! ॥ समुद्रे च धरण्याञ्च वृक्षेषु च लतासु च । देहे च यो रसस्तं हि रविर्हरति रश्मिभिः ॥ ततः संवर्त्तको नाम ज्वालामाली हुताशनः । सङ्कर्षणमुखोत्पन्नो दहत्यनिलसारथिः ॥ सर्व्वं ब्रह्माण्डभाण्डं वै तत्कालक्षोभगर्जितः । एवं दग्धं महाराज ! वह्न्यर्काभ्यां समन्ततः ॥ दग्ध्वा गोमयपिण्डाभं ब्रह्माण्डं सारवर्ज्जितम् । प्रचण्डपवनो राजंस्ततो वर्षशतं पुनः ॥ संवर्त्तको नाम महान् ब्रह्माण्डं चालयिष्यति । ततो मेघा महाघोरा नानावर्णा अनेकशः ॥ शतं वर्षाणि वर्षन्ति गर्ज्जन्ति च महास्वनाः । एकोदकं ततो विश्वं निर्गुणं निर्व्विकारकम् ॥ भूमेर्गन्धगुणं राजन् ! ग्रसन्त्यापः समन्ततः । गुणनाशात् स्वयं पृथ्वी प्रलयं प्राप्स्यते तदा ॥ तेजस्त्वपां रसगुणं सगन्धं पिबते बलात् । ततः प्रलयमायान्ति राजन्नापोऽपि तत्क्षणात् ॥ तेजसस्तु ततो रूपं रसगन्धसमन्वितम् । वायुर्हरति चण्डात्मा तेजःप्रलयमृच्छति ॥ आकाशस्तु ततो वायोः स्पर्शं परगुणैः सह । समादत्ते महाराज ! अम्बरेऽथ प्रलीयते ॥ आकाशस्य गुणं शब्दं गुणैरन्यैः समन्वितम् । अहङ्कारः समादत्ते नभस्तस्मिन् प्रलीयते ॥ तैजसेष्विन्द्रियाण्यङ्गदेवा वैकारिके तथा । अहङ्कारे प्रलीयन्ते जगदेतच्चराचरम् ॥ अहङ्कारं भक्षयन्ति ततः सत्त्वादयो गुणाः । ग्रसते तान् महाराज ! आद्या प्रकृतिरुच्यते ॥ न तस्याः कालदोषेण परिणामो नरर्षभ ! । आद्यन्तरहिता सा हि नित्यं कारणमव्ययम् ॥ शक्तिर्भगवतः सा हि तदेकपरमा च सा । इत्युक्तः प्रलयो राजन् ! विश्वस्यास्य महामते ! ॥ यथोत्पत्तिक्रमेणास्य व्युत्क्रमेण लयस्तथा ॥” इति पाद्मे स्वर्गखण्डे ३९ अध्यायः ॥ (सात्त्विकविकारान्तर्गतविकारविशेषः । तल्ल- क्षणं यथा, साहित्यदर्पणे । ३ । १६७ । “प्रलयः सुखदुःखाभ्यां चेष्टाज्ञाननिराकृतिः ॥”)