संस्कृत-शब्दकोशः

प्रलीनता प्रलेपक

प्रलेप

वाचस्पत्यम्

प्रलेप ||‍ पु० प्र + लिप—भावे घञ् । व्रणादिशोधनार्थे द्रव्यविशे- षेण लेपनविशेषे । सुश्रुते आलेपोपक्रमे “स त्रिविधः प्रलेपः प्रदेह आलेपश्चेति । तेषामन्तरं, प्रलेपः शीत- स्तनुरविशोषी विशोषी च । प्रदेहस्तूष्णः शीतो वा बहु- लोऽबहुरविशोषी च । रक्तपित्तप्रसादनकृदालेपः” इति आलेपनभेदलक्षणान्युक्तानि तत्र द्रव्यभेदास्तत्रोक्ता दृश्याः



Correction: