वाचस्पत्यम्
प्रवचन || न० प्रीच्यते प्र + वच—कर्मणि ल्युट् । १ वेदादौ शास्त्रे भावे ल्युट् । २ अर्थानुसन्धानपूर्वककथने च “नायमात्मा- प्रवचनेन लभ्य” कठोप० । अस्य तिङः परम्य गोत्रा० कुत्त्सायाम् उदात्तता ।
शब्दकल्पद्रुमः
प्रवचनं || क्ली (प्रकर्षेण उच्यते इति । प्र + वच् + ल्युट् । वेदः । (यथा, अमरकोषे । २ । ७ । १० । “अनूचानः प्रवचने साङ्गेऽधीती गुरोस्तु यः । लब्धानुज्ञः समावृत्तः सुत्वा त्वभिषवे कृते ॥” वेदाङ्गम् । यथा, मनुः । ३ । १८४ । “अग्र्याः सर्व्वेषु वेदेषु सर्व्वप्रवत्तनेषु च ॥” “प्रकर्षेणैव उच्यते वेदार्थ एभिरिति प्रवचना- न्यङ्गानि तेषु अग्र्याः षडङ्गविदः ।” इति तत्र कुल्लूकभट्टः ॥ तथा च हरिवंशे । १६७ । ६९ । “उवाच वेदांश्चतुरो मन्त्रप्रवचनार्च्चितान् ॥” * ॥
प्रकृष्टं वचनमिति कर्म्मधारयः ।)
प्रकृष्टवाक्यम् । इति मेदिनी । ने, १९१ ॥ (यथा, मुण्डकोप- निषदि । ३ । २ । ३ । “नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुधा श्रुतेन । येनैवैष वृणुते तेन लभ्य- स्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥”)