वाचस्पत्यम्
प्रवत्स्यत्पतिका || स्त्री प्रवत्स्यन्पतिर्यस्याः । यस्याः पतिः परदेशं गमिष्यति तादृश्यां स्त्रियां रसमञ्जरी । तत्र तल्ल- क्षणभेदादिकमुक्तं यथा “यस्याः पतिरग्रिमक्षणे देशा- न्तरं यास्यत्येव सा प्रवत्स्यत्पतिका । अस्याश्चेष्टा काकु- वचनकातरप्रेक्षणगमनविघ्नोपदर्शननिर्वेदसन्तापसम्मोह- निश्वासबाष्पादयः । सा च सृग्धामध्याप्रोढापरकीया धारणीभेदात् धञ्जविधा तदुदाहरणानि तत्र दृश्यानि ।
शब्दकल्पद्रुमः
प्रवत्स्यत्पतिका || स्त्री (प्रवत्स्यन् प्रवासं गमि- ष्यन् पतिर्यस्याः । कप् ।)
नायिकाभेदः । अस्या लक्षणम् । यस्याः पतिरग्रिमक्षणे देशान्तरं यास्यत्येव सा । अस्याश्चेष्टा काकुवचनकातर- प्रेक्षणगमनविघ्नोपदर्शननिर्व्वेदसन्तापसम्मोह- निश्वासवास्पादयः ॥ मुग्धा प्रवत्स्यत्पतिका यथा, —
“प्राणेश्वरे किमपि जल्पति निर्गमाय क्षामोदरी वदनमानमयाञ्चकार । आली पुनर्निभृतमेत्य लतानिकुञ्ज- मुन्मतकोकिलकलध्वनिमाततान ॥” १ । मध्या प्रवत्स्यत्पतिका यथा, —
“गन्तुं प्रिये ! वदति निःश्वसितं न दीर्घ- मासीन्न वा नयनयोर्ज्जलमाविरासीत् । आयुर्लिपिं पठितुमेणदृशः परन्तु भालस्थलीं किमु करः समुपाजगाम ॥” २ ॥ प्रौढा प्रवत्स्यत्पतिका यथा, —
“नायं मुञ्चति सुभ्रुवामपि तनुत्यागे वियोगज्वर- स्तेनाहं विहिताञ्जलिर्यदुपते ! पृच्छामि सत्यं वद । ताम्बूलं कुमुमं पटीरमुदकं यद्बन्धुभिर्दीयते तत् स्यादत्र परत्र वा किमु विषज्वालावली- दुःसहम् ॥” ३ ॥ परकीया प्रवत्स्यत्पतिका यथा, —
“न्यस्तं पन्नगमूर्द्ध्नि पादयुगलं भक्तिर्विमुक्ता गुरौ त्यक्ता नीतिरकारि किं न भवतो हेतोर्मया दुष्कृतम् । अङ्गानां शतयातना नयनयोः कोपक्रमो रौरवः कुम्भीपाकपराभवश्च मनसो युक्तं त्वयि । प्रस्थिते ॥” ४ ॥ सामान्यप्रवत्स्यत्पतिका यथा, —
“मुद्रां प्रदेहि बलयाय भवद्वियोग- मासाद्य यास्यति बहिः सहसा यदेतत् । इत्थं निगद्य विगलन्नयनाम्बुधारा वाराङ्गना प्रियतमं करयोर्बभार ॥” ५ ॥ इति रस्नमञ्जरी ॥