संस्कृत-शब्दकोशः

प्रवरवाहन प्रवर्ग्य

प्रवर्ग

वाचस्पत्यम्

प्रवर्ग ||‍ पु० प्रवृज्यतेऽसौ प्र + वृज—घञ् । १ विष्णौ हरिवं० ४२ अ० । २ प्रवर्म्ये महावीरे हेमच० । तत्र प्रवर्ग्य इत्येव पाठो न्याय्यः ।


शब्दकल्पद्रुमः

प्रवर्गः || पुं (प्रवृज्यते निःक्षिप्यते हविरादिक- मस्मिन्निति । प्र + वृज् + अधिकरणं घञ् ।)
होमाग्निः । इति हेमचन्द्रः । ३ । ५०० ॥ (यथा, हरिवंशे । ४१ । ३४ । “दक्षिणाहृदयो योगी महासत्रमयो महान् । उपाकर्म्मोष्ठरुचकः प्रवर्गावर्त्तभूषणः ॥” प्रवर्ग्य इति पाठोऽपि दृश्यते ॥)



Correction: