संस्कृत-शब्दकोशः

प्रवर्ग्य प्रवर्तन

प्रवर्तक

वाचस्पत्यम्

प्रवर्त्तक ||‍ त्रि० प्रवर्तयति प्र + वृत—णिच्—ण्वुल् । प्रवृत्तिजनके “बलवदनिष्टाननुबन्धीष्टसाधनत्वे सति कृतिसाध्यतावि- षयकं ज्ञानम् इष्टसाधनताविषयकं कृतिसाध्यताज्ञानं वा प्रवर्तकमिति जरन्नैयायिकाः । यथा वा स्वविशेष- णवत्ताप्रतिसन्धानजन्यं कार्य्यताज्ञानं प्रवर्तकमिति गुरवः । “चोदनेति क्रियायाः प्रवर्तकं वचनम्” चोदनासूत्रे शवरभाष्यम् “क्रियाया नियोगस्य ज्ञान- द्वारा प्रवर्तकं वाक्यं चोदनेत्यर्थः ।


शब्दकल्पद्रुमः

प्रवर्त्तकः || त्रि (प्रवर्त्तयतीति । प्र + वृत् + णिच् + ण्वुल् ।)
प्रवर्त्तनकारी । प्रवृत्तिजनकः । यथा, “प्रवर्त्तकं वाक्यमुवाच चोदनां निवर्त्तकं नैवमुवाच भाष्यकृत् । ततश्च विद्मो नहि चोदनास्ति सा प्रवर्त्तिका या न भवेदिति स्थितिः ॥” इति संक्षेपशारीरकम् ॥ (यथा च देवीभागवते । १ । १४ । ४२ । “प्रथमं पठिता वेदा मया विस्तारिताश्च ते । हिंसामयास्ते पठिताः कर्म्ममार्गप्रवर्त्तकाः ॥” प्रयोजकः । यथा, भागवते । ९ । १७ । ४ । “धन्वन्तरिर्दीर्घतमस आयुर्वेदप्रवर्त्तकः । यज्ञभुग् वासुदेवांशः स्मृतिमात्रार्त्तिनाशनः ॥”)



Correction: