वाचस्पत्यम्
प्रवर्त्तना || स्त्री घ्र + वृत—णिच्—युच् । प्रवृत्तिजनकव्यापारे विध्यादौ “अस्ति प्रवर्तनारूपमनुरूपं चतुर्ष्वपि” इति भर्तृहरिः । भावे ल्युट् तत्रार्थे आरम्भे च न० ।
शब्दकल्पद्रुमः
प्रवर्त्तना || स्त्री (प्र + वृत् + णिच् + युच् ।)
प्रवृत्ति प्रेरणम् । यथा, नैषधे । २ । ६१ । “अथवा भवतः प्रवर्त्तना न कथं पिष्टमियं पिनष्टि न । स्वत एव सतां परार्थता ग्रहणानां हि यथा यथार्थता ॥”