शब्दकल्पद्रुमः
प्रवर्त्तितः || त्रि (प्र + वृत् + णिच् + क्तः ।) जातः । यथा, रघुवंशे । ५ । ३७ । “रूपं तदोजस्वि तदेव वीर्य्यं तथैव नैसर्गिकमुन्नतत्वम् । न कारणात् स्वात् विभिदे कुमारः प्रवर्त्तितो दीप इव प्रदीपात् ॥”