वाचस्पत्यम्
प्रवह || पु० प्र + वह—अच् । “यस्मात् ज्योतीषि वहति प्रवहस्तेन कीर्तितः” उक्ते १ वायुभेदे । भावे अप् । २ नगराद्वहिर्गमने
शब्दकल्पद्रुमः
प्रवहः || पुं, (प्र + वह् + भाबे + अच् ।)
गृह- नगरादेर्ब्बहिर्गमनम् । इत्यमरः । ३ । १ । १८ ॥ (प्रवहतीति । प्र + वह् + अच् ।)
वायुः । इति हेमचन्द्रः ॥ सप्तवाय्वन्तर्गतद्वितीयवायुः । स तु आवहवायोरूर्द्ध्वस्थितः । इति सिद्धान्त- शिरोमणिः ॥ “यस्माज्जोतींषि वहति प्रवहस्तेन स स्मृतः ॥” इति विष्णुपुराणे २ अंशे १२ अध्यायः ॥ अस्य टीका । “यस्माज्ज्योतींषि प्रकर्षेण वहति तेन स वायुः प्रवहः स्मृतः प्रवहस्यैव भेदाः सर्व्वे वायुस्कन्धाः ॥” (मेघविशेषः । यथा, स्कान्दे सह्याद्रिखण्डे । ५ । ६ । “आवहः प्रवहश्चैव उदहासो महांस्तथा । परीवहः पञ्चमश्च विनहश्च परावहः ॥”)