वाचस्पत्यम्
प्रवाच् || त्रि० प्रकृष्टा वाक् यस्य । युक्तियुक्तवाक्यवक्तरि जटा० ।
शब्दकल्पद्रुमः
प्रवाक् || [च्] त्रि, (प्रकृष्टा वाग् यस्य ।)
वाचो युक्तिपटुः । यथा, —
“वाचो युक्तिपटुर्वाग्मी वचोज्ञः प्रवचाः प्रवाक् ॥” इति जटाधरः ॥ (स्त्री, प्रकृष्टा वागिति प्रादिसमासः ।)
प्रकृष्ट- वाक्यञ्च ॥