संस्कृत-शब्दकोशः

प्रवातैजस् प्रवादिन्

प्रवाद

वाचस्पत्यम्

प्रवाद ||‍ पु० प्र + वद—घञ् । १ परम्परागतवाक्ये लोकेषु २ प्रसिद्धे लोकवादे ३ परस्परकथोपकथने च ।


शब्दकल्पद्रुमः

प्रवादः || पुं, (प्रकृष्टो वादः । प्र + वद् + घञ् वा ।)
परस्परवाक्यम् । यथा, भट्टिः । २ । ३६ । “इत्थं प्रवादं युधि संप्रहारं प्रचक्रतू रामनिशाविहारौ । तृणाय मत्वा रघुनन्दनोऽथ बाणेन रक्षः प्रधनान्निरास्थत् ॥” जनरवः । यथा, —
“प्रेयांस्तेऽहं त्वमपि च मम प्रेयसीति प्रवाद- स्त्वं मे प्राणा अहमपि तवास्मीति हन्त प्रलापः । त्वं मे तेऽस्यामहमपि च यत्तच्च नो साघु राधे ! व्याहारे नौ नहि समुचितो युष्मदस्मत्प्रयोगः ॥” इत्यलङ्कारकौस्तुभः ॥



Correction: